Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ दशवैकालिक-मूलसूत्रं मारिरोगाद्युपद्रविघाताकृद्भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एव गुणशतकालितो योग्यः प्रवचनम्-आगमस्तस्य सारस्तं कथयितुमिति, यतोऽसावनेकभव्यसत्त्वप्रबोधहेतुर्भवति, उक्तंच "गुणसुट्ठिअस्स वयणंघयमहुसित्तोव्व पावओ भाइ। गुणहीनस्सन सोहइ नेहविहीणो जह पईवो।" तथा चान्येनाप्युक्तम् "क्षीरं भाजनसंस्थंन तथा वत्सस्य पुष्टिमावहति। आवल्गमानशिरसो यथा हिमातृस्तनात्पिबतः॥१॥ तद्वत्सुभाषितमयंक्षीरंदुःशीलभाजनगतंतु। न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम्॥२॥ शीतेऽपि यनलब्धो न सेव्यतेऽग्निर्यथाश्मशानस्थः। शीलविपत्रस्य वचः पथ्यमपि न गृह्यते तद्वत्॥३॥ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्ण: कुलजैश्चाण्डालकूप इव ॥४॥" 'कस्स'त्ति कस्यानुयोग? इति वक्तव्यं, तत्र सकल श्रुतज्ञानस्याप्यनुयोगो भवति, अमुं पुनः प्रारम्भमाश्रित्य दशकालिकस्येति। अत्राह-ननु'दसकालियनिज्जुर्तिकोत्तइस्सामित्ति" अस्मादेव वचनतः प्रकृतद्वारार्थस्वागतत्वात् तदुपन्यासोऽनर्थक इति, न अधिकृतनिक्षेपाद्वारकलापस्याशेषश्रुतस्कन्धविषयत्वात्, तद्वलेनैवचनियुक्तिकारेणापितथोपन्यस्तत्वात्, अस्मादेव स्थानादनयत्राप्यादो शास्त्राभिधानपूर्वक उपन्यासः क्रियत इति भावना । व्याख्यातं लेशतो नियुक्तिगाथादलं, पश्चार्द्ध त्वध्ययनाधिकारे यथाऽवसरं व्याख्यास्यामः, यतस्तत्रैवोपक्रमाद्यनुयोगद्वारानुपूर्व्यादितभेदसूत्रादिलक्षणतदर्हपर्षदादयश्चवक्तुंशक्यन्ते, नान्यत्र, निविषयत्वादित्यलं प्रसङ्गेन।। साम्प्रतं प्रकृतयोजनामेवोपदर्शयन्नाह नियुक्तिकार:नि.[६] एयाइँपरूवेउंकप्पे वण्णियगुणेण गुरुणा उ। - अनुओगो दसवेयालियस्स विहिणा कहेयव्वो॥ वृ. 'एतानि निक्षेपादिद्वाराणि 'प्ररूप्य' व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट्त्रिंशद्गुणसमन्वितेनेत्यर्थः । अनुयोगो दशवैकालिकस्य 'विधिना' प्रवचनोक्तेन 'कथयितव्य' आख्यातव्य इति गाथार्थः ।। सम्प्रत्यजानानः शिष्यः पृच्छति-यदि दशकालिकस्यानुयोगस्ततस्तद्दशकालिकं भदन्त! किमङ्गमङ्गानी? श्रुतस्कन्धः श्रुतस्कन्धाः? अध्ययनमध्ययनानि? उद्देशक उद्देशका? इत्यष्टौ प्रश्नाः, एतेषां मध्ये त्रयो विकल्पाः खलु प्रयुज्यनते, तद्यथा-दशकालिकं श्रुतस्कन्धः अध्ययनानि उद्देशकाश्चेति, यतश्चैवमतोदशादीनां निक्षेतः कर्त्तव्यः, तद्यथादशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति, तथा चाह नियुक्तिकार:नि.[७] दसकालियंति नामं संखाए कालओय निद्देसो। ___ दसकालियसुअखंधं अज्झयणुद्देस निक्खिविउं।। . वृ.'दशकालिकं' प्राग्निरूपितशब्दार्थम् 'इति' एवंभूतं यत्'नाम' अभिधानं, इदं किम्? - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 284