________________
दशवैकालिक-मूलसूत्रं मारिरोगाद्युपद्रविघाताकृद्भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एव गुणशतकालितो योग्यः प्रवचनम्-आगमस्तस्य सारस्तं कथयितुमिति, यतोऽसावनेकभव्यसत्त्वप्रबोधहेतुर्भवति, उक्तंच
"गुणसुट्ठिअस्स वयणंघयमहुसित्तोव्व पावओ भाइ।
गुणहीनस्सन सोहइ नेहविहीणो जह पईवो।" तथा चान्येनाप्युक्तम्
"क्षीरं भाजनसंस्थंन तथा वत्सस्य पुष्टिमावहति। आवल्गमानशिरसो यथा हिमातृस्तनात्पिबतः॥१॥
तद्वत्सुभाषितमयंक्षीरंदुःशीलभाजनगतंतु। न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम्॥२॥ शीतेऽपि यनलब्धो न सेव्यतेऽग्निर्यथाश्मशानस्थः। शीलविपत्रस्य वचः पथ्यमपि न गृह्यते तद्वत्॥३॥ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः ।
शीतलजलपरिपूर्ण: कुलजैश्चाण्डालकूप इव ॥४॥" 'कस्स'त्ति कस्यानुयोग? इति वक्तव्यं, तत्र सकल श्रुतज्ञानस्याप्यनुयोगो भवति, अमुं पुनः प्रारम्भमाश्रित्य दशकालिकस्येति। अत्राह-ननु'दसकालियनिज्जुर्तिकोत्तइस्सामित्ति" अस्मादेव वचनतः प्रकृतद्वारार्थस्वागतत्वात् तदुपन्यासोऽनर्थक इति, न अधिकृतनिक्षेपाद्वारकलापस्याशेषश्रुतस्कन्धविषयत्वात्, तद्वलेनैवचनियुक्तिकारेणापितथोपन्यस्तत्वात्, अस्मादेव स्थानादनयत्राप्यादो शास्त्राभिधानपूर्वक उपन्यासः क्रियत इति भावना । व्याख्यातं लेशतो नियुक्तिगाथादलं, पश्चार्द्ध त्वध्ययनाधिकारे यथाऽवसरं व्याख्यास्यामः, यतस्तत्रैवोपक्रमाद्यनुयोगद्वारानुपूर्व्यादितभेदसूत्रादिलक्षणतदर्हपर्षदादयश्चवक्तुंशक्यन्ते, नान्यत्र, निविषयत्वादित्यलं प्रसङ्गेन।। साम्प्रतं प्रकृतयोजनामेवोपदर्शयन्नाह नियुक्तिकार:नि.[६] एयाइँपरूवेउंकप्पे वण्णियगुणेण गुरुणा उ।
- अनुओगो दसवेयालियस्स विहिणा कहेयव्वो॥ वृ. 'एतानि निक्षेपादिद्वाराणि 'प्ररूप्य' व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट्त्रिंशद्गुणसमन्वितेनेत्यर्थः । अनुयोगो दशवैकालिकस्य 'विधिना' प्रवचनोक्तेन 'कथयितव्य' आख्यातव्य इति गाथार्थः ।। सम्प्रत्यजानानः शिष्यः पृच्छति-यदि दशकालिकस्यानुयोगस्ततस्तद्दशकालिकं भदन्त! किमङ्गमङ्गानी? श्रुतस्कन्धः श्रुतस्कन्धाः? अध्ययनमध्ययनानि? उद्देशक उद्देशका? इत्यष्टौ प्रश्नाः, एतेषां मध्ये त्रयो विकल्पाः खलु प्रयुज्यनते, तद्यथा-दशकालिकं श्रुतस्कन्धः अध्ययनानि उद्देशकाश्चेति, यतश्चैवमतोदशादीनां निक्षेतः कर्त्तव्यः, तद्यथादशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति, तथा चाह नियुक्तिकार:नि.[७] दसकालियंति नामं संखाए कालओय निद्देसो।
___ दसकालियसुअखंधं अज्झयणुद्देस निक्खिविउं।। . वृ.'दशकालिकं' प्राग्निरूपितशब्दार्थम् 'इति' एवंभूतं यत्'नाम' अभिधानं, इदं किम्? -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org