________________
-
पीठिका[नि.५]
अपमाइ गुरू सीसा पमाइणो दोवि अपमाई।१।। पढमे नत्थि पवित्ती बीए तइए य णत्थि थोवं वा। अत्थि चउत्थि पवित्ती एत्थं गोणीए दिटुंतो।।२।। अप्पण्हुया उगोणी नेव यदोद्धा समुज्जओ दोढुं। खीरस्स करो पसवो? जइवि य बहुखीरदा सा उ।।३।। गोणिसरिच्छो उगुरू दोहाइवसाहुणो समक्खाया।
खीरं अत्थपवित्ती नत्थि तहिं पढमबितिएसु॥५॥ अहवा अनिच्छमाणं अवि किंचि उजोगिणो पवतंत्ति।
तइए सारंतंमी होज्ज पवित्ती गुणित्ते वा ।।६।। अपमाई जत्थ गुरू सीसाविय विनयगहणसंजुत्ता।
धणियं तत्थ पवित्ती खीरस्सव चरिमभंगंमि ।।७।। 'केन'त्ति केनानुयोगः कर्त्तव्य इति वक्तव्यं, तत्र य इत्थंभूत आचार्यस्तेन कर्त्तव्यः, तद्यथा
"देसकुलजाइरूवी संघयणाधिइजुओ अनासंसी। अविकत्थणो अमाई थिरपरिवाडी गहियवक्को॥१।। जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू।
आसनलद्धपइभो नाणाविहदेसभासन्नू॥२॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू। आहरणहेउकारणनयनिउणो गाहणाकुसलो॥३।। ससमयपरसमयविऊ गंभीरो दित्तियं सिवो सोमो।
गुणसयकालिओ जुग्गो पवयणसारंपरिकहेउं॥४।। आसामर्थ: कल्पादवसेयः, प्राथमिकदशकालिकव्याख्याने तुलेशत उच्यते-आर्यदेशोत्पन्नः, सुखावबोधवाक्यो भवतीति देशग्रहणं, पैतृकं कुलं विशिष्टकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति, मातृकी जाति: तत्सम्पन्नो विनयान्वितो भवति, रूपवानादेयवचनो भवति, आकृतौ च गुणा वसन्ति, संहननधृतियुक्तो व्याख्यानतपोऽनुष्ठानदिषु नखेदं याति, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकांक्षति, अविकत्थनो बहुभाषी न भवति, अमायी न शाव्येन शिष्यान् वाहयति, स्थिरपरिपाटी स्थिरपरिचित्तग्रन्थस्य सूत्रं न गलति, गृहीतवाक्योऽप्रतिघातवचनो भवति, जितपरिषत् परप्रवादिक्षोभ्यो न भवति, जितनिद्रोऽप्रमत्तत्वाद् व्याख्यानरतिर्भवति प्रकामनिकामशायिनश्च शिष्यांश्चोयति, मध्यस्थः संवादको भवति, देशकालभावज्ञो देशादिगुणानबुद्धयाप्रतिबद्धो विहरति देशनां च करोति, आसन्नलब्धप्रतिभोजात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनसमर्थो भवति, ज्ञानादिपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान् भावान् सम्यक् प्ररूपयति नागममात्रमेव, ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, स्वसमयपरसमयवित् सुखं परमातक्षेपमुखेन स्वसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान् परप्रवादिक्षोभमुत्यादगति, शिवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org