SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक-मूलसूत्रं क्रियते इति करणं-पिण्डविशुद्धयादि, उक्तं च - "पिंडविसोही समिई भावन पडिमा यइंदियानिरोहो। ___ पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु॥" चरणकरणयोरनुयोगश्चरणकरणानुयोगः, अनुरूपो योगोऽनुयोगः-सूत्रस्यार्थेन सार्द्धमनुरूपाः सम्बन्धो, व्याख्यानमित्यर्थः, एकारान्तः शब्दः प्राकृतशैल्या प्रथमाद्वितीया]न्तोऽपि द्रष्टव्यः, यथा "कयरेआगच्छइ दित्तरूवे" इयतादि, 'धर्म' इती धर्मकथानुयोगः ‘काले' चेति कालानुयोगश्च गणितानुयोगश्चैत्यर्थः 'द्रव्य चे'ति द्रव्यानुयोगश्च । तत्र कालिकश्रुतं चरणकरणानुयोगः ऋषिभाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्यादीनिगणितानुयोगः, दृष्टिवा दस्तुद्रव्यानुयोग इति उक्तं च- कालिय सुअं च इसिमासियाइ तइया य सूरपनत्ती सव्वोय दिट्ठिवाओ चउत्थओ होइ अनुओगो॥" इति गाथार्थः । इह चार्थतोऽनुयोग द्विधा-अपृथक्त्वानुयोग: पृथक्त्वानुयोगश्च, तत्रापृथक्त्वानयोगो यत्रैकस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते, अनन्तगमपर्यात्वात्सूत्रस्य, पृथक्त्वानुयोगश्च क्वचित्सूत्रे चरणकरणमेव क्वचित्पुनर्धर्मकथैवेत्यादि, अनयोश्च वक्तव्यता "जावंत अज्जवइरा अपुहुत्तं कालियानुओगस्स। तेनारेण पुहुत्तं कालियसेय दिट्ठिवाए य॥" इत्यादेर्ग्रन्थादावश्यकविशेषविवरणाच्चावसेयेति ।। इह पुनः पृथक्त्वानुयोगेनाधिकारः, नि.[४] अपुहुत्तपुहुत्ताइं निद्दिसिउं एत्थ होइ अहिगारो । चरणकरणानुओगेन तस्स दारा इमे हुंति॥ वृ. अपृथक्त्वपृथक्त्वे' लेशतो निर्दिष्टस्वरुपे निर्दिश्य अत्र' प्रक्रमे भवत्यधिकारः, केन? - 'चरणकरणानुयोगेन' 'तस्य' चरणकरणानुयोगस्य द्वाराणि' प्रवेशमुखानि अमूनि' वक्ष्यमाणलक्षणानि भवन्तीति गाथार्थः॥ नि.[५] निक्खेवेगट्ठनिरुत्ताविही पवित्तीय केन वा कस्स? तद्दारभेयलक्खण तयरिहपरिसा य सुत्तत्थो॥ वृ.अस्याः प्रपञ्चार्थ: आवश्यकविशेषविवरणादवसेयः, स्थानशून्यार्थंतुसंक्षेपार्थः प्रतिपाद्यत इति, 'निक्खेव'त्ति अनुयोगस्य निक्षेप: कार्यः, तद्यथा-नामानुयोग इत्यादि, 'एगट्ठत्ति' तस्यैव एकाथिकानि वक्तव्यानि, तद्यथा-अनुयोगो नियोग इत्यादि, 'निरुत्ति' त्ति तस्यैव निरुक्तं वक्तव्यम्, अनुयोजनमनुयोगः अनुरूपो वा योग इत्यादि, 'विहि'त्ति तस्यैव विधिर्वक्तव्यो, वक्तुः श्रोतुश्च तत्र वक्तुः "सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसिओ भणिओ। तइओ य निरवसेसो एस विही होइ अनुओगे।" श्रोतुश्चायम्-"भूयं हुंकारंवा बाढक्कार पडिपुच्छ वीमंसा। तत्तो पसंगपारायणं च परिनिट्ठ सत्तमए ।।" पवित्ती य'त्ति अनुयोगस्य प्रवृत्तिश्च वक्तव्या, सा चतुर्भङ्गानुसारेण विज्ञेया, उक्तं च - ____ "निच्चं गुरू पमाई सीसा य गुरू न सीसगा तहय। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy