________________
पीठिका [नि. २/१] प्रतिपादितैव, यत उक्तम्
"जं नेरईओ कम्मं खवेइ बहुयाहिं वासकोडीहि ।
तं नाणी तिहि गुत्तो खवेइ ऊसासमेत्तेणं ॥"
इत्यादि । इह चादिमङ्गलं द्रुमपुष्पिकाध्ययनादि, धर्मप्रशंसाप्रतिपादकत्वात्तत्स्वरूपत्वादिति, मध्यमङ्गलं तु धर्मार्थकामाध्ययनादि, प्रपञ्चाचारकथाद्यभिधायकत्वात्, चरममङ्गलं तुभिक्ष्वध्ययनादि, भिक्षुगुणाद्यवलम्बनत्वादित्येवमध्ययनविभागतो मङ्गलत्रयविभागो निदर्शति:, अधुना सूत्रविभागेन निदर्श्यते - तत्र चादिमङ्गलम् ' धम्मो मंगलं' इत्यादिसूत्रं, धर्मोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, मध्यमङ्गलं पुनः 'नाणदंसणे' त्यादि सूत्रं, ज्ञानोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, अवसानमङ्गलं तु 'निक्खमममाणा इय' इत्यादि, भिक्षुगुणस्थिरीकरणार्थं विविक्तचर्याभिधायकत्वात्, भिक्षुगुणानां च मङ्गलत्वादिति । आह-मङ्गलमिति कः शब्दार्थः ?, उच्यते, 'अगिरगिलवगिमगीति' दण्डकधातुः, अस्य "इदितो नुम् धातो" रिति नुमि विहिते औणादिकालचप्रत्ययान्तस्य अनुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति । मङ्गयते हितमनेनेति मङ्गलं, मङ्गयतेऽधिगम्यते साध्यत इतियावत्, अथवा मङ्ग इति धर्माभिधानं, 'ला आदाने' अस्य धातोर्मङ्गे उपपदे " आतोऽनुपसर्गे कः " इति कप्रत्ययान्तस्यानुबन्धलोपेकृते 'आतो लोप इटिच" क्ङिति इत्यनेन सूत्रेणाकारलोपे च कृते प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गं लातीति मङ्गलं, धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं, संसारादपनयतीत्यर्थः तच्च नामादि चतुर्विधं तद्यथानाम मङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं चेति, एतेषां च स्वरूपमावश्यकविशेषविवरणादवसेयमिति ॥
44
अमुमेव गाथार्थमुपसंहरन्नाह नियुक्तिकार:
नि. [२/२]
नामाइ मंगलंपिय चउव्विहं पन्नवेऊणं ॥
वृ. नामादिमङ्गलं चतुर्विधमपि 'प्रज्ञाप्य' प्ररूप्येति गाथार्थः ॥ तत्र समानकर्तृक्योः पूर्वकाले क्त्वाप्रत्ययविधानात् प्रज्ञाप्य किमत आह
नि. [३] सुयनाणे अनुओगेणाहिगयं सो चउव्विहो होइ ।
चरणकरणानुओगे धम्मे गणिए (काले) य दविए य ॥
५
वृ. श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः, इयमत्र भावना-- भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तम् -
"एत्थं पुन अहिगारो सुयनाणेणं जओ सुएणं तु ।
सेसाणमप्पणाऽविय अनुओगु पईवदिट्ठतो ॥"
तस्य चोद्देशादयः प्रवर्तन्ते इति, उक्तं च- "सुअनाणस्स उद्देसो समुद्देसो अणुत्रा अनुओगो पवत्तइ" तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञा-तस्य च सतः अनुयोगो भवतीत्यतो निर्युक्तिकारेणाभ्य-धायि — श्रुतज्ञानेऽनुयोगेनाधिकृत' मिति । 'सः' अनुयोगश्चतुर्विधो भवति, कथम् ? - 'चरणकरणानुयोगः ' चर्यत इति चरणं - व्रतादि, यथोक्तम्,
“वय समणधम्मसंजमवेयावच्चं च बंभगुत्तीओ। नाणादितियं तव कोहनिग्गहाई चरणमेयं ॥"
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org