________________
पीठिका नि.७] संख्यानं संख्या तया, तथा 'कालतश्च' कालेन चायं-'निर्देशः' निर्देशनं निर्देशः, विशेषभिधानमित्यर्थः,अस्य च निबन्धनं विशेषेण वक्ष्यामः 'मनगंपड्ढच्च' इत्यादिना ग्रन्थेन, यतश्चैवमतः 'दसकालिय'ति कालेन निर्वृत्तं कालिकं दशशब्दस्य कालशब्दस्य च निक्षेपः, निर्वृत्तार्थस्तु निक्षेपः, तथा श्रुतस्कन्धं तथाऽध्य्यनं 'उद्देशं तदेकदेशभूतं, किम्? -निक्षेप्तु-मनुयोगोऽस्य कर्तव्य इति गाथार्थः। तत्र 'यथोद्देशं निद्देश' इति न्यायादधिकृतशास्त्राभिधानो-पयोगित्वाञ्च दशशब्दस्यैवादौ निक्षेपः प्रदर्शयते-तत्र दशैकाद्यायत्ता वर्तन्ते, एकाद्यभावेदशा-नामप्यभावाद्, अत एकस्यैव तावन्निक्षेपप्रतिपिपादयिषयाऽऽहनि.[८] नामं ठवणा दविए माउयपयसंगहेक्कए चेव।
पज्जावभावे य तहा सत्तेए एक्कगा होति।। वृ. इहैक एव एककः, तत्र 'नामैककः' एक इति नाम 'स्थापनैककः' एक इति स्थापना, 'द्रव्यैककं' त्रिधा-सचित्तादि, तत्र सचित्तमेकं पुरुषद्रव्यं, अचित्तमेकं रूपकद्रव्यं, मिश्रं तदेव कटकादिभूषिनं पुरुषद्रव्यमिति, 'मातृकापदैककम्' एकं मातृकापदं, तद्यथा-'उप्पने इवे' त्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा-"उत्पन्ने इवा विगमे इवा धुवेइवा" अमूनि च मातृकापदानि "अआइई" इत्येवमादीनि, सकलशब्दव्यवहारव्यापकत्वान्मातृकापदानि, इह चाभिधेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः, 'सङ्ग्रहैककः' शालिरिति, अयमत्र भावार्थ:-संग्रहः- समुदाय: तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेः, तथा चैकोऽपि शालिः शालिरित्युच्यते बहवोऽपि शालयः शालिरिति, लोके तथादर्शनात्, अयं चादिष्टानादिष्टभेदेन द्विधा-तत्रानादिष्टो यथा शालिः, आदिष्टो यथा कलमशालिरिति, एवमादिष्टानादिष्टभेदावुत्तरद्वारेवपि यथारूपमायोज्यौ, 'पर्यायैककः' एक: पर्यायः, पर्यायो विशेषो धर्म इत्यनन्तरं, सचानादिष्टो वर्णादिः आदिष्टः कृष्णादिरिति __ अन्ये तु समस्तश्रुतस्कन्धवस्त्वपेक्षयेत्थं व्याचक्षते-अनादिष्टः श्रुतस्कन्धः आदिष्टो दशकालिकाख्य इति, अन्यस्त्वनादिष्टो दशकालिकाख्यः आदिष्टस्तु तदध्ययनविशेषो द्रुमपुष्पिकादिरिति व्याचष्टे, न चैदतिचारु, दशकालिकाभिधानत एवादेशसिद्धेः। 'भावैकक:' एको भावः, सचानादिष्टो भाव इति, आदिष्टस्तवौदयिकादिरिति। सप्त एते अनन्तरोक्ता एकका भवन्ति, इह च किल यस्माद्दश पर्याया-अध्ययनविशेषाः संग्रहैककेन संगृहीतास्तस्मात्तेनाधिकारः, अन्ये तु व्याचक्षते-यतः किल श्रुतज्ञानं क्षायोपशमिके भावे वर्तते तस्माद्भवैककेनाधिकार इति गाथार्थः॥ इदानीं दद्यादीन् विहाय दशशब्दस्यैव निक्षेपं प्रतिपादयन्नाहनि.[९] नामंठवणा दविए खित्ते काले तहेव भावे अ।
एसोखलनिक्खेवो दसगस्स उछव्विहो होइ।। वृ. आह-किमिति यादीन् विहाय दशशब्द: उपन्यस्तः?, उच्यते, एतत्प्रतिपादनादेव द्वयादीनां गम्यमानत्वात्, तत्र नामस्थापने सुगमे, द्रव्यदशकं दश द्रव्याणि सचित्ताचित्तमिश्राणि मनुष्यरूपककटकादिविभूषितानीति, क्षेत्रदशकं दश क्षेत्रप्रदेशाः, कालदशकं दश कालाः, वर्तनादिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थ: वक्ष्यति च-'बाला किड्डा मंदे' त्यादिना, भावदशकं दश भावाः, ते च सान्निपातिकभावे स्वरूपतो भावनीयाः, अथ चैत (वैत) एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org