________________
१०
दशवैकालिक - मूलसूत्रं
विवक्षया दशाध्ययनविशेषा इति, 'एष' एवंभूतः खलु 'निक्षेपो' न्यासो दशशब्दस्य बहुवचनान्तत्वाद्दशानां षड्विधो भवति, तत्र खलुशब्दोऽवधारणार्थः, एष एव प्रकान्तोपयोगीति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? नायं दशशब्दमात्रस्य, किन्तु तद्वाच्यस्यार्थस्यापीति गाथार्थः साम्प्रतं प्रस्तुतोपयोगित्वात्कालस्य कालदशकद्वारे विशेषार्थप्रतिपिपादयिषयेदमाहबाला किड्डा मंदा बला य पन्ना य हायनि पवंचा । पब्भार मम्मुही सायनी य दसमा उ कालदसा ॥
नि. [१०]
वृ. बाला क्रीडा च मन्दा च बला प्रज्ञा च हायिनि ईषत्प्रपञ्चा प्राग्भारा मृन्मुखी शायिनी तथा । एता हि दश दशा:-जन्त्ववस्थाविशेषलक्षणा भवन्ति ।
आसां च स्वरूप-मिदमुक्तं पूर्वमुनिभिः -
"जायमित्तस्स जंतुस्स, जा सा पढमिया दसा । न तत्थ सुहदुक्खाई, बहुं जाणंति बालया ॥१॥ बिइयं च दसं पत्तो, नानाकिड्डाहिं किड्डड्इ । न तत्थ कामभोगेहिं, तिव्वा उप्पज्जई मई ॥२॥ तइयं च दसं पत्तो, पंच कामगुणे नरो । समत्थो भुंजिउं भोए, जइ से अस्थि घरे घुवा ||३|| उत्थी उबला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसिउं, जइ कोइ निरुवद्दवो ॥४॥
पंचमि तु दसं पत्तो, आनुपुव्वीइ जो नरो । इच्छियत्थं विचिंतेइ, कुडुबं वाऽभिकंखई ॥५॥ छठ्ठी हायणी नाम, जं नरो दसमस्सिओ । विरज्जइ य कामेसु, इंदिएसु य हायई ||६|| सत्तमं च दसं पत्तो, आनुपुव्वीइ जो नये । निडुहइ चिक्कणं खेलं, खासइ य अभिक्खणं ॥७॥
संकुचियवलीचम्मो, संपत्तो अट्ठमिंदसं । नारी मनभिप्पेओ, जराए परिणामिओ ॥ ८ ॥
नवमी मम्मी नाम, जं नरों दसमस्सिओ । जराघरे विनस्संतो, जीवो वसइ अकामओ ॥ ९ ॥ हीनभिन्नस दीनो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ सुवइ, संपत्तो दसमिं दसं ॥१०॥ इत्यलं विस्तरेणेति गाथार्थः ॥ इदानीं कालनिक्षेपप्रतिपादानायमहनि. [११] दव्वे अद्ध अहाउअ उवक्कमे देसकालो य ।
Jain Education International
तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥
वृ.' द्रव्य' इति वर्त्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धे'ति चन्द्रसूर्यादिक्रिया-विशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः, तथा 'यथायुष्ककालो' देवाद्यायुष्क
For Private & Personal Use Only
www.jainelibrary.org