Book Title: Agam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 8
________________ अध्ययनं-१ नमो नमो निम्मल देसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः १९ निरयावलिका-उपाङ्गसूत्रम् सटीक अष्टमं उपाङ्गम् मूलसूत्रम् + चंद्रसूरिविरचिता वृत्ति (अध्ययनं-१ कालं) वृ. नमः श्रीशान्तिनाथदेवाय॥ ॥१॥ पार्श्वनाथं नमस्कृत्य, प्रायोऽन्यग्रन्थवीक्षिता । निरयावलिश्रुतस्कन्धे, व्याख्या काचित् प्रकाश्यते। तत्र निरयावलिकाख्योपाङ्गग्रन्थस्यार्थतो महावीरनिर्गतवचनमभिधित्सुरावचार्यः सुधर्मस्वामी सूत्रकारः। म. (१) नमः श्रुतदेवतायै ॥ ते णं काले णं ते णं समए णं रायगिहे नामं नयरे होत्था, रिद्ध, (उत्तरपुरिच्छिमे दिसीभाए) गुणसिलए, चेइए, वन्नउ, असोगवरपायवे पुढविसिलापट्टए वृ. 'तेणं कालेणं' इत्यादिग्रन्थं तावदाह-अत्र ‘णं' वाक्यालङ्कारार्थ ः । तस्मिन् कालेऽवसर्पिण्याश्चतुर्थभागलक्षणे तस्मिन् समये-तद्विशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्यः सुधर्म (श्रीवर्धमान) स्वामी च ‘होत्था'त्ति अभवत्-आसीदित्यर्थः । अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्तमिदानीं नास्ति। रिद्ध' इत्यनेन चनगरवर्णकः सूचितः, सच-“रिद्धस्थिमियसमिद्धं" भवनादिभिवृद्धिमुपगतं, भयवर्जितत्वेन स्थिरं, समृद्धं-धनधान्यादियुक्तं, ततः पदत्रयस्य कर्मधारयः। ___“पमुइयजणजाणवयं" प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावात् जना-नगरवास्तव्यलोकाः जानपदाश्च-जनपदभवास्तत्रा याताः सन्तो यस्मिन तत् प्रमुदितजनजानपदम् ।" उत्ताणनयनपेच्छणिज्जं" सौभाग्यातिशयात् उत्तानैः अनिमिषैः नयनैः-लोचनैःप्रेक्षणीयं यत्तत्तथा "पासाइयं" चित्तप्रसत्तिकारि । “दरिसणिज्ज" यत् पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरूवं' मनोज्ञरूपम् । “पडिरूवं" द्रष्टारं द्रष्टारं प्रति रूपं यस्य तत्तथेति।। तस्मिन "उत्तरपरिच्छिमेदिसीभाएगणसिलए नामंचेइएहोत्था"चैत्यं-व्यन्तरायतनम 'वन्नओ' त्तिचैत्यवर्णको वाच्यः-"चिराईए पुव्वपुरिसपन्नत्ते" चिरः-चिरकालः आदिः-निवेशो यस्य तत् चिरादिकम् अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तम् । "सच्छत्ते सज्झए सघंटे सपडागे कयवेयद्दीए" कृतवितर्दिकं-रचितवेदिकं Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 404