Book Title: Agam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-१
आवासम्अवगृह्य-अनुज्ञापनापूर्वकंगृहीत्वा संयमेन तपसा चात्मानंभावयन् विहरति आस्तेस्म।
'परिसा निग्गय' ति परिषत्-श्रेणिकराजादिको लोकः निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थम् । धर्मश्रवणानन्तरं “जामेव दिसिं पाउब्भूआ तामेव दिसिं पडिगय" त्ति यस्या दिशः सकाशात् प्रादुर्भूता-आगतेत्यर्थः तामेव दिशं प्रतिगता इति ।
मू. (३) ते णं काले णं ते णं समए णं अजसुहम्मस्स अनगारस्स अंतेवासी जंबू नामं अनगारे समचउरंससंठाणसंठिएजावसंखित्तविउलतेयलेस्सेअजसुहम्मस्सअनगारस्सअदूरसामंते उटुंजाणू जाव विहरति।
वृ तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेऽवासी आर्यजम्बूनामाऽनगारः काश्यपगोत्रेण । ‘सत्तुस्सेहे' सप्तहस्तोच्छ्रायः, 'समचउरंससंठाणसंठिए' यावत्करणादिदं दृश्य 'वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे' कनकस्य-सुवर्णनस्य 'पुलग' त्ति यः पुलको-लवः तस्य योनिकषः-कषपट्टरेखालक्षणः तथा 'पम्हेति' पद्मगर्भः तद्वद्योगौरःसतथा, वृद्धव्याख्या तु-कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयः तप्रधानो यो निकषो-रेखा तस्य यत् पक्ष्म-बहलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौरः। तथा 'उग्गतवे' उग्रम्अप्रधृष्यं तपोऽस्येति कृत्वा।।
'तत्ततवे' तप्तं-तापितं तपो येन स तप्ततपाः एवं तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापित इति। तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु-हुताशन इव ज्वलत्तेजः कर्वनदाहकत्वात् । 'उराले' उदारः-प्रधानः । 'घोरे' घोरः-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये। तथा घोरव्वए; घोराणि-अन्यैर्दुरनुचराणि व्रतानि यस्य सतथा।तथा घोरैस्तपोभिस्तपस्वीघोरतपस्वी। “संखित्तविउलतेयलेस्से" संक्षिप्ताशरीरान्तर्निलीना विपुला–अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभावा तेजोलेश्या (यस्य सः) एवं गुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य “अदूरसामंते'त्तिदूरं-विप्रकर्षः सामन्तंसमीपम्, उभयोरभावोऽदूरसामन्तं (तस्मिन्) नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः ।
कथं ? 'उटुंजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सन्नपदिश्यतेऊर्बेजानुनी यस्य सऊर्ध्वजानुः, अधःशिराः अधोमुखः नोर्चतिर्यग्वा निक्षिप्तष्टिः, किंतु नियतभूभागनियमितदृष्टिरिति भावना। यावत्करणात् 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतोध्यानकोष्ठोपगतः, यथाहि-कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवति एवंस भगवान् धर्मध्यानकोष्ठमनुप्रविश्य इन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः । संयमेनसंवरेण तपसा ध्यानेन आत्मानं भावयन्-वासयन् विहरति-तिष्ठति।
मू. (४) तएणं से भगवंजंबू जातसड्ढे जाव पञ्जुवासमाणे एवं वयासि-उवंगाणं भंते! समणे णं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं एवं उवंगाणं पंच वग्गा पन्नत्ता, तं जहा-निरयावलियाओ १ कप्पवडिंसियाओ २ पुष्फियाओ ३ पुष्फचूलियाओ ४ वण्हिदसाओ ५।
जइणंभंते! समणेणंजावसंपत्तेणंउवंगाणंपंच वग्गा पन्नत्तातं जहा-निरयावलियाओ जाव वण्हिदसाओ पढमस्स णं भंते वग्गस्स उवंगाणं निरयावलियाणं समणेणं भगवया जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 404