Book Title: Agam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मू० १३२
लेवोवरि २ लेव ३ संघटेहिवि ४ गंतव्वं जयणाए" इति॥ मू. (१३३) तंमूलं संसारंजणेइ अज्जावि गोयमा! नूनं ।
तम्हा धम्मुवएस मुत्तुं अन्नं न भासिज्जा ॥ वृ.तंमूलं०॥तत्-पूर्वोक्तजिनाज्ञाखण्डनमूलं संसारं 'जनयति' अर्जयतीत्यर्थः 'आर्या' साध्वी अपिशब्दान्मुनिरपि हे गौतम! 'नूनं निश्चितं 'तम्हा' इति यस्माजिनाज्ञाखण्डने विरुद्धप्ररूपणेऽनन्तभवभ्रमणं जायते तस्माद्धर्मोपदेशं स्वर्गापवर्गसौख्यप्रदं मुक्त्वा ‘अन्यत्' आप्तवाक्यविसंवादि 'न भाषेत' न स्वपरसभायांप्ररूपयेदिति॥ मू. (१३४) मासे मासे उजा अजा, एगसित्येण पारए।
कलहे निहत्थभासाहि, सव्वं तीइ निरत्ययं ॥ वृ. मासे० । ‘मासे मासे उत्ति मासक्षपणं २ कृत्वेत्यर्थः, तुशब्दान्मासक्षपणद्वित्र्यादिकं कृत्वाऽऽऽपि याऽऽर्या “एकसित्थुना' अद्वितीयेन कूरादिलक्षरूपेण न तु सित्थुद्वयादिनेत्यर्थः 'पारयेत्' पारणकं करोतीत्यर्थः, एवंविधाऽपि साध्वी यदि 'कलहे'त्ति "द्वितीयातृतीययोः सप्तमी"ति द्वितीयार्थे सप्तमी 'कलह' राटिं स्वपरवर्गसमक्षं करोति, काभिः?
गृहस्थानां-अनार्यरूपाणां भाषा-मर्मोद्धाटनालप्रदानशापप्रदानमकारच कारादिगालिप्रदानलक्षणास्ताभिर्गृहस्थभाषाभि ‘सर्वं तपः-कष्टादिकं तीइ'त्ति 'तस्याः' नामसाध्व्याः कुरण्डतुल्यायाः “निरर्थकं सर्वथा निष्फलमित्यर्थः, ननु साध्वी कलहं करोति साधुः किं न करोति उच्यते-प्रवाहेण स्तोककार्येऽपि रामाः शुनीवत्कलहं निष्पादयन्ति न तथा साधवोऽत आर्या प्रोक्ता इति ।। अथ कस्मादिदमुद्धरितमिति दर्शयतिमू. (१३५) महानिसीहकप्पाओ, ववहाराओ तहेव य।
साहुसाहुणिअट्ठाए, गच्छायारं समुद्धियं॥ वृ. महा०॥ श्रीमहानिशीथात्-प्रवचनपरमतत्वकल्पात् कल्पात्-बृहत्कल्पलक्षणात् 'व्यवहारात् परमनिपुणात्तथैवच निशीथादिभ्यः “साधुसाध्व्यर्थाय साधुसाध्वीनांहितार्थायेत्यर्थः 'गच्छाचारं गणाचारप्रतिपादकप्रकीर्णकंसिद्धान्तरूपं समुद्धृतं उत्सर्गापवादनिरूपणेन बद्धमिति
अत्रशिष्यः प्रश्नयति-प्रकीर्णकानामुत्पत्ति किंगणधरात् गणधरशिष्यात्प्रत्येकबुद्धात् तीर्थकरमुनेर्वा ?, उच्यते-प्रत्येकबुद्धात्तीर्थकरविशिष्ठमुनेर्वा, यदुक्तं नन्दिसूत्रे
“से किंतं अंगबाहिरं?, २ दुविहं पन्नत्तं, तं०-आवस्सयं च १ आवस्सयवइरित्तं च २, से किं तं आवस्सयं?, २ छव्विहं पन्नत्तं, तंजहा-सामाइअं १ चउव्वीसत्यओ २ वंदणयं ३ पडिकमणं ४ काउस्सग्गो ५ पञ्चक्खाणं ६, से तं आवस्सयं ।
से किं तं आवस्सयवइरित्तं?, आव० दुविहं प०, तं०कालियं उक्कालियं च ।
से किं तं उक्कालियं?, उ० अनेगविहं पं०, तं०-दसवेयालियं १ कप्पिआकप्पियं २ चुल्लकप्पसुयं ३ महाकप्पसुयं ४ उववाइयं५ रायपसेणियं ६जीवाभिगमो७ पन्नवणा ८ महापन्नवणा ९ पमायप्पमायं १० नंदी ११ अनुओगदाराई १२ देविंदत्थओ १३ तंदुलवेयालियं १४ चंदाविज्झयं १५ सूरपन्नत्ती १६ पोरिसिमंडलं १७ मंडलपवेसो १८ विजाचरणविणिच्छओ १९ गणिविजा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीयरागसुयं २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org