Book Title: Agam Suttani Satikam Part 01 Aacharang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ आचाराङ्ग सूत्रम् १/-19/-/[नि. १] भवति, सूत्रंचसूत्रानुगमे, सच सूत्रोच्चारणरूपः पदच्छेदूपश्चेति।अनन्तधर्माध्यासितंवस्त्वेकेनैव धर्मेण नयन्तिपरिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगकिञ्चिद्विभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां नियुक्तिकारो गाथामाह - नि. [१] वंदित्तु सव्वसिद्धे जिणे अ अनुओगदायए सब्वे । आयारस्स भगवओ निजृत्तिं कित्तइस्सामि वृ. तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनं, नियुक्ति करिष्ये इतिप्रयोजनकथनमितितात्पर्यार्थः, अवयवार्थस्तु वन्दित्वे ति वदिअभिवादनस्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा,अनयोश्चमनःपूर्वकत्वात्करणत्रयेणापिनमस्कारआवेदितो भवति, सितंभातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वेचते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादक, तान्वन्दित्वेति सम्बन्धः सर्वत्रयोज्यः, रागद्वेषजितोजिनाः-तीर्थकृतस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, ‘वन्दित्वे'ति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तर क्रि यामाह-'आचारस्य' यथार्थनाम्नः भगवत' इति अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिर्नियुक्तिस्तां 'कीर्तयिष्ये' अभिधास्ये इतिअन्तस्तत्त्वेन निष्पन्नां नियुक्ति बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः॥ यथाप्रतिज्ञातमेव बिभणिषुर्निक्षेपार्हाणि पदानि तावत् सुहृद्भूत्वाऽऽचार्यः संपिण्ड्य कथयतिनि. [२] आयार अंग सुयखंध बंभ चरणे तहेव सत्थे य । __ परिणाए संणाए निक्खेवो तह दिसाणंच वृ.आचार अङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्त्तव्य इति तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दानामनिष्पन्ने निक्षेपेद्रष्टव्याः,अङ्गश्रुतस्कन्धशब्दाओघनिष्पन्ने, संज्ञादिक्शब्दौ सूत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति ॥ एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह - नि. [३] चरणदिसावजाणं निक्खेवो चउक्क ओय नायव्यो । चरणंभि छव्विहो खलु सत्तविहो होइ उ दिसाणं वृ.चरणदिग्वर्जानांचतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथासम्भवमायोज्यम् ।। नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाहनि. [४] जत्थ यजं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थविय न जाणिज्जा चउक्क यं निक्खिवे तत्थ वृ. 'यत्र' चरणदिक्शब्दादौ यंनिक्षेप-क्षेत्रकलादिकंजानीयात्तं तत्र निरवशेषं निक्षिपेद्, यत्र तु निरवशेषं न जानीयादाचाराङ्गादौ तत्रापिनामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 468