Book Title: Agam Suttani Satikam Part 01 Aacharang Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 9
________________ आचाराङ्ग सूत्रम् १/-/9/-/ तस्मादशेषप्रत्यहोपशमनाय मङ्गलमभिधेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादि-मङ्गलं 'सुयं मे आउसंतेणं भगवया एवमक्खाय'मित्यादि, अत्रच भगवद्वचनानुवादो मङ्गलम्, अथवा श्रुतमितिश्रुतज्ञानं, तच्च नन्द्यन्तः पातित्वान्मङ्गलमिति, एतच्चाविनेनाभिल-षितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकसूत्र से जहा केविहरएपडिपुण्णेचिट्ठइ समंसि भोम्मे उवसन्तरए सारक्खमाणे'इत्यादि, अत्र च ह्रदगुणैराचार्य गुणोत्कीर्तनम्, आचार्यश्च पञ्चनमस्कारान्तःपातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरीकरणार्थम्, अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम् अभिनिव्वुडेअमाईआवकहाएभगवंसमियासी' अत्राभिनिवृतग्रहणं संसारमहातरुकन्दोच्छेद्यऽविप्रतिपत्त्या ध्यानकारित्वान्मङ्गलमिति, एतच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादेनैनैवाध्ययनानामपि मगलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गं, ज्ञानरूपत्वात् ज्ञानस्य च निर्जरार्थत्वात्, निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तम्॥१॥ “जं अन्नाणी कम्मंखवेइ बहुयाहिं वासकोडीहिं तंनाणी तिहिं गुत्तो खवेइ उस्सासमित्तेणं" मङ्गलशब्दनिरुक्तंचमांगालयत्यपनयति भवादितिमङ्गलं, मा भूद्गलो विघ्नोगालोवा नाशः शास्त्रस्येति मङ्गलमित्यादि, शेषं त्वाक्षेपपरिहारदिकमन्यतोऽवसेयमिति। साम्प्रतमाचारानुयोगः प्रारभ्यते -आचारस्यानुयोगः-अर्थकथनमाचारानुयोगः, सूत्रादनु-पश्चादर्थस्य योगोऽनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्वा लघीयसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः, सचामीभिर्दारैरनुगन्तव्यः, तद्यथा॥१॥ निक्खेवेगट्टनिरुत्तिविहिपवित्तीय केण वा कस्स तद्दारभेयलक्खण तदरिहपरिसा स सुत्तत्थो तत्र निक्षेपो-नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधा-आगमतो नोआ गमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽनेकधा, द्रव्येण-सेटिकादना द्रव्यस्य-आत्मपरमाण्वादेर्द्रव्येनिषद्यादौ वा अनुयोगो द्रव्यानुयोगः, क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः क्षेत्रानुयोगः, एवं कालेन कालस्य काले वाऽनुयोगः कालानुयोगः, वचनानुयोग एकवचनादिना, भावानुयोगी द्वेधा आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तो, नोआगमतस्तु औपशमिकादिभावैः, तेषां चानु योगोऽर्थकथनं भावानुयोगः, शेषमावश्यकानुसारेण ज्ञेयं, केवलमिहानुयोगस्य प्रस्तुतत्वात्तस्य चाचार्याधीनत्वात् केनेतिद्वारंविव्रियते, तथोपक्रमादीनिचद्वाराणिप्रचुरतरोपयोगित्वात्प्रदर्श्यन्ते, तत्र केनेति कथम्भूतेन ? यथाभूतेन च सूरिणा व्याख्या कर्तव्या तथा प्रदर्श्यते ॥१॥ "देसकुलजाइरूवी संघयणी धिइजुओ अणासंसी अविकत्थणो अमाई थिरपरिवाडी गहियवक्को" ॥२॥ जियपरिसो जियनिद्दो मज्झत्यो देसकालभावन्नू आसन्नलद्धपइभो नानाविहदेसभासण्णू ॥३॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू आहरणहेउकारनणयनिउणो गाहणाकुसलो Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 468