Book Title: Agam Suttani Satikam Part 01 Aacharang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ १० आचाराङ्ग सूत्रम् १/-/१/-/- [नि. ७] ॥६॥ 'अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो जुंज य जहाथामं नायव्वो वीरियायारो' तत्र एष पञ्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानी माचालः, आचाल्यतेडनेनातिनिविडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा । इदानीमागालः, आगालानमागालः समप्रदेशावस्तानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्नप्रदेशावस्थानं, भावागालो ज्ञानादिक एव तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा । इदानीमाकरः आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरत्नानामत्र लाभात् । इदानीमाश्वासः, आश्वासन्त्यस्मिन्नित्याश्चासो नामादिः, व्यतिरिक्तोयानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आद्दश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तोदर्पणः, भावादर्श उक्त एव, यतोऽस्मिन्नितिकर्त्तव्यता दृश्यते । इदानीमङ्गम्, अज्यते व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामाद्येव, तत्र व्यतिरिक्तं शिरोबाह्लादि, भावाङ्गमयमेवाचारः इदानीमाचीर्णम् - आसेवितं तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्णं सिंहादेस्तृणादिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्णं वाल्हीकेषु सक्तवः कोङ्कणेषु पेया, कालीचीर्णं त्विदं - सरसो चंदणपंको अग्घइ सरसा य गंधकासाई पाडलिसिरीसमल्लिय पियाइँ काले निदाहं मि 11911 भावाचीर्णं तु ज्ञानादिपञ्चकं, तत्प्रतिपादकश्चाचा रग्रन्थः । इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्द्धा, व्यतिरिक्ता मनुष्यादिजातिः, भावाजातिस्तु ज्ञाना द्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः कर्माष्टकोद्वेष्टनम शेषमेतत्साधकश्चायमेवाचार इति । एते किञ्चिद्विशेषादेकमेवार्थं विशिषन्तः प्रवर्त्तन्त इत्येकार्थिकाः शक्र पुरन्दरादिवत्, एकार्थाभिधायिनां च छन्दश्चितिबन्धानुलोम्यादिप्रतिपत्त्यर्थमुद्रघट्टनम्, उक्तं चसव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए । नि. [८] सेसाई अंगाई एक्कारस आणुपुव्वीए वृ. सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च, ततः शेषाङ्गार्थ इति, गणधरा अप्यनयैवानुपूर्व्या सूत्रतया ग्रथ्नन्तीति नि. [९] वृ. अयमाचारो द्वादशानामप्यङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह - यतोऽत्र मोक्षोपायः-चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य सारः प्रधानमोक्षहेतुप्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ।। इदानीं गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह - नि. [१०] Jain Education International - इदानीं प्रथमत्वे हेतुमाह - आयारो अंगाणं पढमं अंगं दुवालसण्हंपि । इत्थ य मोक्खोवाओ एस य सारो पवयणस्स आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 468