________________
१०
आचाराङ्ग सूत्रम् १/-/१/-/- [नि. ७]
॥६॥
'अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो जुंज य जहाथामं नायव्वो वीरियायारो'
तत्र
एष पञ्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानी माचालः, आचाल्यतेडनेनातिनिविडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा । इदानीमागालः, आगालानमागालः समप्रदेशावस्तानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्नप्रदेशावस्थानं, भावागालो ज्ञानादिक एव तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा । इदानीमाकरः आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरत्नानामत्र लाभात् । इदानीमाश्वासः, आश्वासन्त्यस्मिन्नित्याश्चासो नामादिः, व्यतिरिक्तोयानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आद्दश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तोदर्पणः, भावादर्श उक्त एव, यतोऽस्मिन्नितिकर्त्तव्यता दृश्यते । इदानीमङ्गम्, अज्यते व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामाद्येव, तत्र व्यतिरिक्तं शिरोबाह्लादि, भावाङ्गमयमेवाचारः इदानीमाचीर्णम् - आसेवितं तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्णं सिंहादेस्तृणादिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्णं वाल्हीकेषु सक्तवः कोङ्कणेषु पेया, कालीचीर्णं त्विदं - सरसो चंदणपंको अग्घइ सरसा य गंधकासाई पाडलिसिरीसमल्लिय पियाइँ काले निदाहं मि
11911
भावाचीर्णं तु ज्ञानादिपञ्चकं, तत्प्रतिपादकश्चाचा रग्रन्थः । इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्द्धा, व्यतिरिक्ता मनुष्यादिजातिः, भावाजातिस्तु ज्ञाना द्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः कर्माष्टकोद्वेष्टनम शेषमेतत्साधकश्चायमेवाचार इति । एते किञ्चिद्विशेषादेकमेवार्थं विशिषन्तः प्रवर्त्तन्त इत्येकार्थिकाः शक्र पुरन्दरादिवत्, एकार्थाभिधायिनां च छन्दश्चितिबन्धानुलोम्यादिप्रतिपत्त्यर्थमुद्रघट्टनम्, उक्तं चसव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए ।
नि. [८]
सेसाई अंगाई एक्कारस आणुपुव्वीए
वृ. सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च, ततः शेषाङ्गार्थ इति, गणधरा अप्यनयैवानुपूर्व्या सूत्रतया ग्रथ्नन्तीति
नि. [९]
वृ. अयमाचारो द्वादशानामप्यङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह - यतोऽत्र मोक्षोपायः-चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य सारः प्रधानमोक्षहेतुप्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ।। इदानीं गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह -
नि. [१०]
Jain Education International
- इदानीं प्रथमत्वे हेतुमाह - आयारो अंगाणं पढमं अंगं दुवालसण्हंपि । इत्थ य मोक्खोवाओ एस य सारो पवयणस्स
आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं
For Private & Personal Use Only
www.jainelibrary.org