________________
आचाराङ्ग सूत्रम् १/-19/-/[नि. १] भवति, सूत्रंचसूत्रानुगमे, सच सूत्रोच्चारणरूपः पदच्छेदूपश्चेति।अनन्तधर्माध्यासितंवस्त्वेकेनैव धर्मेण नयन्तिपरिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगकिञ्चिद्विभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां नियुक्तिकारो गाथामाह - नि. [१] वंदित्तु सव्वसिद्धे जिणे अ अनुओगदायए सब्वे ।
आयारस्स भगवओ निजृत्तिं कित्तइस्सामि वृ. तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनं, नियुक्ति करिष्ये इतिप्रयोजनकथनमितितात्पर्यार्थः, अवयवार्थस्तु वन्दित्वे ति वदिअभिवादनस्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा,अनयोश्चमनःपूर्वकत्वात्करणत्रयेणापिनमस्कारआवेदितो भवति, सितंभातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वेचते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादक, तान्वन्दित्वेति सम्बन्धः सर्वत्रयोज्यः, रागद्वेषजितोजिनाः-तीर्थकृतस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, ‘वन्दित्वे'ति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तर क्रि यामाह-'आचारस्य' यथार्थनाम्नः भगवत' इति अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिर्नियुक्तिस्तां 'कीर्तयिष्ये' अभिधास्ये इतिअन्तस्तत्त्वेन निष्पन्नां नियुक्ति बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः॥
यथाप्रतिज्ञातमेव बिभणिषुर्निक्षेपार्हाणि पदानि तावत् सुहृद्भूत्वाऽऽचार्यः संपिण्ड्य कथयतिनि. [२] आयार अंग सुयखंध बंभ चरणे तहेव सत्थे य ।
__ परिणाए संणाए निक्खेवो तह दिसाणंच वृ.आचार अङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्त्तव्य इति तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दानामनिष्पन्ने निक्षेपेद्रष्टव्याः,अङ्गश्रुतस्कन्धशब्दाओघनिष्पन्ने, संज्ञादिक्शब्दौ सूत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति ॥
एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह - नि. [३] चरणदिसावजाणं निक्खेवो चउक्क ओय नायव्यो ।
चरणंभि छव्विहो खलु सत्तविहो होइ उ दिसाणं वृ.चरणदिग्वर्जानांचतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथासम्भवमायोज्यम् ।। नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाहनि. [४] जत्थ यजं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं ।
जत्थविय न जाणिज्जा चउक्क यं निक्खिवे तत्थ वृ. 'यत्र' चरणदिक्शब्दादौ यंनिक्षेप-क्षेत्रकलादिकंजानीयात्तं तत्र निरवशेषं निक्षिपेद्, यत्र तु निरवशेषं न जानीयादाचाराङ्गादौ तत्रापिनामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org