________________
श्रुतस्कन्धः - १, अध्ययनं-१, उपोद्घात : ॥४॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो
गुणसयकलिओ जुत्तो पवयणसारं परिकहेउ आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणं, पैतृकं कुलमिक्ष्वाक्वादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहनेन श्राम्यतीति, मातृकी, जातिस्तत्संपन्नो विनयादिगुणवान्, भवति, 'यत्राकृतिस्तत्रगुणावसन्ती'तिरूपग्रहणं, संहननधृतियुतोव्याख्यानादिषुन खेदमेति, अनाशंसी श्रोतृभ्यो नवस्त्राद्याकाङ्क्षति, अविकत्थनोहितमितभाषी, अमायी सर्वत्र विश्वास्यः, स्थिरपरिपाटिः परिचितग्रन्थस्य सूत्रार्थगलनासंभवात्, ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः, जितपर्षद् ाजादिसदसि न क्षोभमुपयाति, जितनिद्रोऽप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति, मध्यस्थः शिष्येषुसमचित्तोभवति, देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति, आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञस्य नानाविधदेशजाः शिष्याः व्याख्यानंसुखभवभोत्स्यन्ते, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनोभवति, सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चंयथावद्द्वापयिष्यति, हेतूदाहरण-निमित्तनयप्रपञ्चज्ञःअनाकुलो हेत्वादीनाचष्टे, ग्राहणाकुशलोबह्वीभिर्युक्तिभिः शिष्यान्बोधयति, स्वसमयपरसमयज्ञः सुखेनैवतत्स्थापनोच्छेदी करिष्यति, गम्भीरः खेदसहः, दीप्तिमान् पराधृष्यः, शिवहेतुत्वात् शिवः, तदधिष्ठितदेशे मा-धुपशमनातु, सौम्यःसर्वजननयनमनोरमणीयः,गुणशतकलितः प्रश्रयादिगुणोपेतः, एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवति ।
तस्य चानुयोगस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि-व्याख्याङ्गानि भवन्ति, तद्यथा - उपक्रमो निक्षेपोऽनुगमो नयः, तत्रोपक्रमणमुपक्रमः उपक्रम्यतेऽनेनास्मादस्मिन्निति वोपक्रमः :-व्याचिख्यासितशास्त्रस्य समीपानयनमित्यर्थः, सच शास्त्रीयलौकिकभेदा द्विधा, तत्र शास्त्रीयः आनुपूर्वी नाम प्रमाणं वक्त्व्यताऽर्थाधिकारः समवतारश्चेति षोढा, लौकिको नाम स्थापनाद्रव्यक्षेत्रकालभावभेदात्षोद्वैव । निक्षेपणमननेस्मादिस्मिन्निति वा निक्षेपः, उपक्रमानीतस्य व्याचिख्यासितशास्त्रस्य नामादिन्यसनमित्यर्थः, स च त्रिविधः, तद्यथा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्नोऽङ्गाध्ययनादिसामान्यभि-धानन्यासः, नामनिष्पन्न आचारशस्त्रपरिज्ञादि-विशेषाभिधाननामादिन्यासः, सूत्रालापक- निष्पन्नश्च सूत्रालापकानां नामादिन्यसनमिति। अनुगमनमनेनास्माद स्मिन्निति वाऽनुगमः, अर्थकथनमित्यर्थः, सच द्विधानियुक्त्यनुगमः सूत्रानुगमश्चेति, तत्र निर्युक्त्यगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो निक्षेप एव सामान्यविशेषाभिधानयोरोघनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाम्यामनुगतः सूत्रापेक्षया वक्ष्यमाणलक्षणश्चेति, उपोद्घात निर्युक्तयनुगमश्चाम्यां द्वारगाथाम्यामनुगन्तव्यः, तद्यथा॥१॥ 'उद्देसे निद्देसे य निग्गमे खेत्तकालपुरिसे य
कारणपच्चयलक्खण नए समोयारणाऽनुमए ॥२॥ किं कतिविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं
कइ संतरमविरहियं भवागरिस फासणनिरुत्ती" सूत्रस्पर्शिकनियुक्तयनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, सच सूत्रेसति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org