Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 6
________________ पीठिका - [भा. १] ३५/१ बृहत्कल्प -छेदसूत्रम् सटीकं [द्वितीयं छेद सूत्रम्) पीठिका एवं भू. ७ पर्यन्त : उद्देशकः -१ [भद्रबाहुस्वामि रचितं मूलं (स्वोपज्ञनियुक्तियुक्तं ) + संघदासगणि विरचितं भाष्यं + मलयगिरि आचार्य एवं क्षेमकीर्ति आचार्य विरचिता वृत्तिः ] बृहत्कल्प- पीठिका 11911 प्रकटीकृतनिःश्रेयसपदहेतुस्थविरकल्प-जिनकल्पम् । नम्राशेषनरा-ऽमरकल्पितफलकल्पतरुकल्पम् ॥ त्वा श्रीवीरजिनं, गुरुपदकमलानि बोधविपुलानि । कल्पाध्ययनं विवृणोमि लेशतो गुरुनियोगेन ॥ भाष्यं क चाऽतिगम्भीरं ?, क्व चाऽहं जडशेखरः । तदत्र जानते पूज्या, ये मामेवं नियुञ्जते ॥ अद्भुत गुणरत्ननिधी, कल्पे साहायकं महातेजाः । दीप इव तमसि कुरुते, जयति यतीशः स महातेजाः ॥ वृ- इह शिष्याणां मङ्गलबुद्धिपरिग्रहाय शास्त्रस्याऽऽदौ मध्येऽवसाने चावश्यं मङ्गलमभिधातव्यम्, यत आदिमङ्गलपरिगृहीतानि शास्त्राणि परगामीनि भवन्ति, मध्यमङ्गलपरिगृहीतानि शिष्यबुद्धिष्वारोपितानि स्थिरपरिचितान्युपजायन्ते पर्यन्तमङ्गलसमलङ्कृतानि शिष्य-प्रशिष्यपरम्परागमनतः स्फातीभवन्ति । उक्तं च नमो नमो निम्पल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ॥ २ ॥ 113 11 ॥ ४ ॥ तं मंगलमादीए, मज्झे पतए य सत्यस्स । पढमं सत्थत्थाविग्धपारगमनाय निद्दिवं ॥ तस्सेव य थेजत्थं, मज्झिमयं अंतिमं पि तस्सेव । अव्वोच्छित्तिनिमित्तं, सिस्स- पसिस्सादिवंसस्स ॥ वृ-तत्राऽऽदिमङ्गलं पापप्रतिषेधकत्वादिदं सूत्रम्- "नो कप्पइ निग्गंधाण वा निग्गंधीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए " ( मू१) इति, मध्यमङ्गलं “कप्पति निग्गंधाण वा निग्गंधीण वा पुरत्थिमेणं जाव अंगमगहातो इत्तए" एवमादि, पर्यवसानमङ्गलं “छव्विहा कप्पट्ठिती पन्नत्ता'' इत्यादि । तच्च मङ्गलं चतुर्धा वक्ष्यमाणस्वरूपम् । तत्र यद् नोआगमतो भावमङ्गलं तद् द्विविधं सूत्रभणितं सूत्रस्पर्शिकनिर्युक्तिभणितंच, भाष्यभणितमित्यर्थः, सूत्रस्पर्शिकनिर्युक्तेर्भाष्यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 1500