________________
पीठिका - [भा. १]
३५/१ बृहत्कल्प -छेदसूत्रम्
सटीकं
[द्वितीयं छेद सूत्रम्)
पीठिका एवं भू. ७ पर्यन्त : उद्देशकः -१
[भद्रबाहुस्वामि रचितं मूलं (स्वोपज्ञनियुक्तियुक्तं ) + संघदासगणि विरचितं भाष्यं + मलयगिरि आचार्य एवं क्षेमकीर्ति आचार्य विरचिता वृत्तिः ]
बृहत्कल्प- पीठिका
11911
प्रकटीकृतनिःश्रेयसपदहेतुस्थविरकल्प-जिनकल्पम् । नम्राशेषनरा-ऽमरकल्पितफलकल्पतरुकल्पम् ॥ त्वा श्रीवीरजिनं, गुरुपदकमलानि बोधविपुलानि । कल्पाध्ययनं विवृणोमि लेशतो गुरुनियोगेन ॥ भाष्यं क चाऽतिगम्भीरं ?, क्व चाऽहं जडशेखरः । तदत्र जानते पूज्या, ये मामेवं नियुञ्जते ॥ अद्भुत गुणरत्ननिधी, कल्पे साहायकं महातेजाः । दीप इव तमसि कुरुते, जयति यतीशः स महातेजाः ॥
वृ- इह शिष्याणां मङ्गलबुद्धिपरिग्रहाय शास्त्रस्याऽऽदौ मध्येऽवसाने चावश्यं मङ्गलमभिधातव्यम्, यत आदिमङ्गलपरिगृहीतानि शास्त्राणि परगामीनि भवन्ति, मध्यमङ्गलपरिगृहीतानि शिष्यबुद्धिष्वारोपितानि स्थिरपरिचितान्युपजायन्ते पर्यन्तमङ्गलसमलङ्कृतानि शिष्य-प्रशिष्यपरम्परागमनतः स्फातीभवन्ति । उक्तं च
नमो नमो निम्पल दंसणस्स
पंचम गणधर श्री सुधर्मास्वामिने नमः
॥ २ ॥
113 11
॥ ४ ॥
तं मंगलमादीए, मज्झे पतए य सत्यस्स । पढमं सत्थत्थाविग्धपारगमनाय निद्दिवं ॥ तस्सेव य थेजत्थं, मज्झिमयं अंतिमं पि तस्सेव । अव्वोच्छित्तिनिमित्तं, सिस्स- पसिस्सादिवंसस्स ॥
वृ-तत्राऽऽदिमङ्गलं पापप्रतिषेधकत्वादिदं सूत्रम्- "नो कप्पइ निग्गंधाण वा निग्गंधीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए " ( मू१) इति, मध्यमङ्गलं “कप्पति निग्गंधाण वा निग्गंधीण वा पुरत्थिमेणं जाव अंगमगहातो इत्तए" एवमादि, पर्यवसानमङ्गलं “छव्विहा कप्पट्ठिती पन्नत्ता'' इत्यादि । तच्च मङ्गलं चतुर्धा वक्ष्यमाणस्वरूपम् । तत्र यद् नोआगमतो भावमङ्गलं तद् द्विविधं सूत्रभणितं सूत्रस्पर्शिकनिर्युक्तिभणितंच, भाष्यभणितमित्यर्थः, सूत्रस्पर्शिकनिर्युक्तेर्भाष्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org