Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
बृहत्कल्प-छेदसूत्रम् -१
तदा शास्त्रममङ्गलम्, अमङ्गलत्वाच्च न ज्ञानम्, ज्ञानाभावाच्च न कर्त्तव्यस्तस्याऽनुयोग इति, अत्राह[भा. २३] न वियहु होयऽनवत्था, न वि य हु मंगलममंगलं होइ । अप्पपराभिव्यत्तिय, लोणुण्हपदीवमादि व्व ॥
१२
वृ- नाऽपि च 'हुः' निश्चितं भवत्यनवस्था, यतो नन्दी शास्त्रदनर्थान्तरभूता, शास्त्र च स्वतः समस्तं मङ्गलम्, न च तस्य मङ्गलभूतस्य सतोऽन्यन्मङ्गलमुपादीयते, ततो नाऽनवस्थाप्रसङ्गः । यदापि नन्द्या व्याख्यानमकृत्वा शास्त्रमारभ्यते तदापि तच्छास्त्र मङ्गलमिति तदमङ्गलं न भवति । एवंतावनन्नन्द्या अनर्थान्तरतायाममङ्गलत्वमनवस्थाच परिहृता । सम्प्रत्यर्थान्तरत्वमधिकृत्य परिहियते - यद्यपि शास्त्रदर्थान्तरभूता नन्दी तथाप्यमङ्गलत्वमनवस्था च न भवति, कथम् ? इत्याह- "अप्पपर" इत्यादि । नन्दी आत्मनापि मङ्गलं शास्त्रमपि च मङ्गलीकरोति, शास्त्रमप्यात्मना । डपि मङ्गलं नन्दीमपि च मङ्गलीकरोति । एवमात्म-पराभिव्यक्तितो द्वयोरपि मङ्गलयोरेकीभूतयोः सुष्टुतरो मङ्गलभावो भवति । कथमिव ? इत्यत आह- "लोणुण्हपदीवमादि व्व" । यथा द्वयोर्लवणयोरेकीभूतयोः सुष्ठुतरो लवणभावः, द्वयोर्वा उष्णयोरेकत्र मिलितयोः सुष्ठुतर उष्णतरभावः, यथा वा द्वयोः परदीपयोः समीचीनतरः प्रकाशभावः, आदिशब्दान्मधुर-शीतलस्नेहादिद्रव्याणां परिग्रहः; एवमिहापि द्वयोर्मङ्गलयोरेकीभूतयोः सुष्ठुतरो मङ्गलभावः । स्यादेतत् एवमपि प्रसजत्यनवस्था, तृतीयादिमङ्गलोपादाने सुष्ठुतरमङ्गलभावोपपत्तेः न प्रजति, प्रयोजनाभावात्, तथा लोकव्यवहारदर्शनात्। तथाहि लोके कस्यचिदातुरस्य शर्करापलद्वयमौषधं केनाऽपि भिषग्वरेणोपादेशि, तत्र यद्यपि तृतीयादिशर्कराप्रलप्रक्षेपे विशिष्टतमो मधुरभावो भवति तथापि तन्न प्रक्षिप्यते, प्रयोजनाभावात् । एवमिहाप्यन्यत् तृतीयादिकं मङ्गलं नोपादीयते, प्रयोजनाभावादिति ॥ तदेवं "नदी य मंगलद्वा" इति व्याख्यातम् ।
अधुना मङ्गलस्येव नन्दया अपि चतुःप्रकारं निक्षेपमाह[भा. २४] नंदी चतुक्क दव्वे, संखबारसग तूरसंघातो ।
भावम्मि नागपनगं, पच्चक्खियरं च तं दुविहं ।।
वृ- नन्द्याश्चतुष्को निक्षेपः, तद्यथा-नामनन्दी स्थापनानन्दी द्रव्यनन्दी भावनन्दी च । तत्र नामस्थापने सुप्रतीते। द्रव्यनन्दी द्विधा-आगमतोनो आगमतश्च । तत्राऽऽगमतो नन्दिशब्दार्थज्ञाता तत्र चाऽनुपयुक्तः, “अनुपयोगो द्रव्यम्" इति वचनात् । नोआगमतस्त्रधा ज्ञशरीरं भव्यशरीरं तद्यतिरिक्ता च । तत्र यद् नन्दीशब्दार्थज्ञस्य शरीरं जीव विप्रमुक्तं तद् भूतभावत्वाद्ज्ञशरीरद्रव्यनन्दी । यस्तु बालको नेदानीं नन्दीशब्दार्थमवबुध्यतेऽथ चाऽवश्यमायत्यां मोत्स्यते स भाविभावत्वाद् भव्यशरीरद्रव्यनन्दी | तद्व्यतिरिक्ता शङ्खद्वादशकस्तूर्यसङ्घातः । स चायम्
भंभा मुकुंद मद्दल, कडंब झल्लरि हुडुक्क कंसाला ।
काहल तलिमा वंसो, पणवो संखो य बारसमो ||
भावतो द्विधा-आगमतो नोआगमतश्च । तत्राऽऽगमतो नन्दिशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः । तत्र मूलद्वारगाथायां यत् "पंचके 'ति भणितं तस्य व्याख्यानमाह-भावे नोआगमतो नन्दी ‘ज्ञानपञ्चकं' पञ्चविधं ज्ञानम् - आभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं च | "दुग "त्ति भणितं तस्य व्याख्यानमाह-भावे नोआगमतो नन्दी 'ज्ञानपञ्चकं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1500