Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पीठिका - [भा. १२]
उक्तं नामेन्द्रलक्षणम्, अधुना स्थापनेन्द्रलक्षणमाह[भा.१३] सब्मावमसब्भावे, ठवणा पुण इंदकेउमाईया।
इत्तरमनित्तरा वा, ठवणा नामं तु आवकहं।। वृ-'स्थापना' स्थापनेन्द्रः पुनः सद्भावेऽसद्भावेच 'इन्द्रकेत्वादिका' इन्द्रकेतुप्रभृतिको द्रष्टव्यः, अत्राऽऽदिशब्दादिन्द्रप्रतिमा-ऽक्ष-वराटकादिपरिग्रहः । इयमत्र भावना-या इन्द्र इति स्थापना अक्ष-वराटिकादिषु असदभावेन, याचेन्द्रकेविन्द्रप्रतिमादिषु सद्भावतः सस्थापनेन्द्रः।। आह नाम-स्थापनयोः कः प्रतिविशेषः ? उच्यते- “इत्तर" इत्यादि । स्थापना इत्वरा अनित्वरा च भवति, यावद्रव्यभाविनी अथावद्र्व्यभाविनी चेत्यर्थः; नाम पुनर्नियमात् ‘यावत्कथिक' यावद्रव्यभावि; एष प्रतिविशेषः ।। द्रव्येन्द्रमाह[भा.१४] दवे पुन तल्लद्धी, जस्सातीता भविस्सते वा वि ।
जो वा वि अनुवउत्तो, इंदस्स गुणे परिकहेइ ।। वृ- 'द्रव्ये' द्रव्यविषयः पुनः इन्द्रो यस्य 'तल्लब्धि' इन्द्रलब्धि अतीता भविष्यति च स प्रतिपत्तव्यः । किमुक्तं भवति?-यः पूर्वमिन्द्रत्वं प्राप्तो यश्च प्राप्स्यति स यथाक्रमं भूतभावत्वाद् भाविभावत्वाच्च द्रव्येन्द्रः । उक्तंच
भूतस्य भाविनो वा, भावस्य हि कारणं तु यल्लोके ।
तद् द्रव्यं तत्त्वज्ञैः, सचेतना-ऽचेतनं कथितम् ।। यो वाऽपि इन्द्रस्य गुणान् परस्मै परिकथयति, परमनुपयुक्तः, सोऽपि द्रव्येन्द्रः, “अनुपयोगोद्रव्य"मिति वचनात् ।। उक्तो द्रव्येन्द्रः, सम्प्रति भावेन्द्रमाह[भा.१५] जो पुन जहत्थजुत्तो, सुद्धनयाणं तु एस भाविंदो।
इंदस्स व अहिगारं, वियाणमाणो तदुवउत्तो।। वृ-यः पुनः यथार्थेन यथावस्थितेनार्थेन परमैश्वर्यलक्षणेन “इदुपरमैश्वर्ये' इति वचनात् साक्षादिन्द्रनाम-गोत्राणि कर्माणि वेदयत इत्यर्थः, स भावेन्द्रः । एषः 'सुद्धनयानां' शब्दादीनां यथावस्थितार्थग्राहकाणां वर्तमानविषयिकाणां सम्मतः, न शेषो नामेन्द्रादि । अथवा 'इन्द्रस्य इन्द्रसब्दस्य' 'अधिकारम्' अर्थं जानन् 'तदुपयुक्तः' तस्मिन्-इन्द्रशब्दार्थे उपयुक्तो भावेन्द्रः, "उपयोगो भावनिक्षेपः" इति वचनात् ।। अत्र पर आह[भा.१६] न हि जो घडं वियाणइ, सो उघडीभवइ ने य वा अग्गी।
नाणं तिय भावोत्तिय, एगट्ठमतो अदोसो त्ति ।। वृ-न हि योघटविजानाति सघटीभवति, यस्यवाअग्निविज्ञानं सोऽग्नि, प्रत्यक्षविरोधात् ततोयदुक्तं "इंदस्स वाऽहिगारंविजाणमाणो तदुवउत्तो' इति तन्मिथ्या । अत्र सूरिराह-ज्ञानमिति भाव इति वा, चशब्दादध्यवसाय इति वा उपयोग इति वा एकार्थम् अतोऽदोषः । इयमत्र भावना-अर्था-ऽभिधान-प्रत्ययास्तुल्यनामधेयाः, तथाहि-घटोऽपि वाह्यो घट इत्युच्यते, घटशब्दोऽपि घट इति, घटज्ञानमपि घट इति; ज्ञानं च ज्ञानिनोऽपृथग्भूतम्, अतो घटज्ञान्यपि घट इत्युच्यते; अग्निज्ञान्यपि अग्निरित्यदोषः । एतदेव भावयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1500