Book Title: Agam Sutra Satik 16 Suryapragnapati UpangSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
प्राभृतं ११, प्राभृतप्राभृतं
२११ वृ. ‘ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण भगवन् ! त्वया संवत्सराणामादिराख्यात इति वदेत् ?, भगवानाह–'तत्थ खलु इत्यादि, तत्र-संवत्सरविचारविषये खल्विमे पञ्च संवत्सराः प्रज्ञप्ताः, तद्यथा-चन्द्रश्चन्द्रोऽभिवद्धितः चन्द्रोऽभिवर्द्धितः, एतेषां च स्वरूपंप्रागेवोपदर्शितं, भूयः प्रश्नयति–'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणांमध्ये प्रथमस्य चान्द्रस्य संवत्सरस्य क आदिराख्यात इति वदेत् ?, भगवानाह-'ता जेणमित्यादि, यत्पाश्चात्ययुगवर्तिनः पञ्चमस्याभिवर्द्धितसंवत्सरस्य पर्यवसानं-पर्यवसानसमयः तस्मादनन्तरं पुरस्कृतो-भावी यः समयः स प्रथमस्य चन्द्रसंवत्सरस्यादि, तदेवं प्रथमसंवत्सरस्यादितिः । सम्प्रति पर्यवसानसमयं पृच्छति-"ता से णमित्यादि, ता इति पूर्ववत् स प्रथमश्चान्द्रसंवत्सरः किंपर्यवसितः किंपर्यवसान आख्यात इति वदेत् ?, भगवानाह– 'ताजे ण'मित्यादि, यो द्वितीयस्य चान्द्रसंवत्सरस्यादि-आदिसमयस्तस्मादनन्तरो यः पुरस्कृतः -अतीतसमयः स प्रथमचान्द्रसंवत्सरस्य पर्यवसानं-पर्यवसानसमयः।
"तं समयं च णमित्यादि, तस्मिंश्चान्द्रसंवत्सरपर्यवसानभूते समये चन्द्रः केन नक्षत्रेण सहयोगंयुनक्ति-करोति?, भगवानाह-'ताउत्तराहिं इत्यादि, इह द्वादशभिः पौर्णमासीभिश्चान्द्रः संवत्सरोभवति, ततोयदेवप्राक्वादश्यां पौर्णमास्यांचन्द्रनक्षत्रयोगपरिमाणंसूर्यनक्षत्रयोगपरिमाणं चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यं, तथैव गणितभावना कर्तव्या, एवं शेषसंवत्सरगतान्यादिपर्यवसानसूत्राणि भावनीयानि यावयाभृतपरिसमाप्ति, नवरंगणितभावना क्रियते-तत्र द्वितीयसंवत्सरपरिसमाप्तिश्चतुर्विंशतितमपौर्णमासीपरिसमाप्तौ, तत्र ध्रुवराशिषट्षष्टिर्मुहूर्ताएकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागाएकस्यच द्वाषष्टिभागस्य एकः सप्तषष्टिभागः इत्येवंप्रमाणश्चतुर्विंशत्या गुण्यते ,जातानि पञ्चदश शतानि चतुरशीत्यधिकानि मुहूर्तानां मुहूर्तगतानां च द्वाषष्टिभागानां विंशत्युत्तरं शतमेकसय च द्वाषष्टिभागस्य चतुर्विंशति सप्तषष्टिभागाः तत एतस्मादष्टभिः मुहूर्तशतैरेकोनविंशत्यधिकैरेकस्य चमुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य चद्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरेकः परिपूर्णोनक्षत्रपर्यायः शुद्धयति, ततः स्थितानिपश्चात्सप्त मुहूर्तशतानि पञ्चषष्ट्यधिकानि मुहूर्तगतानांच द्वाषष्टिभागानांपञ्चन-वतिरेकस्यच द्वाषष्टिभागस्यपञ्चविंशति सप्तषष्टिभागाः ततो 'मूले सत्तेव चोयाला' इत्यादि वचनात् सप्तभिश्चतुश्चत्वारिंश दधिकैर्मुहूर्तशतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्यचद्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि मूलपर्यन्तानि नक्षत्राणिशुद्धानि, ततः स्थिताः पश्चात् द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्याष्टौ द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षड्विंशति सप्तषष्टिभागाः तत आगतं द्वितीयचान्द्रसंवत्सरस्य पर्यवसानसमयेपूर्वाषाढानक्षत्रस्यसत मुहूर्त्ता एकस्यचमुहूर्तस्यत्रिपञ्चाशद् द्वाषष्टिभागाएकस्य द्वाषष्टिभास्य एकचत्वारिंशत् सप्तषष्टिभागाः शेषाः, तदानींच सूर्येणयुक्तस्य पुनर्वाञचत्वारिंशत् मुहूर्ताएकस्य च मुहूर्तस्य पञ्चत्रिंशत्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः शेषाः, तथाहि
__- स एव ध्रुवराशि चतुर्विंशत्या गुणितो जातानि पञ्चदश शतानि चतुरशी- त्यधिकानि मुहूर्ताना मुहूर्तगतानां च द्वाषष्टिभागानां विंशत्युत्तरं शतं एकस्य च द्वाषष्टिभ गम्य चतुर्विंशति सप्तषष्टिभागाः ततएतस्मादष्टभिशतैरेकोनविंशत्यधिकैर्मुहूर्ता-नामेकस्य च मुहूत्तम्य चतुर्विंशत्या
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336