Book Title: Agam Sutra Satik 16 Suryapragnapati UpangSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२५२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०९
अवराई खलु दुवे तेरसगाई जाइं चंदे केणइ अस्सामनगाई सयमेव पविट्टित्ता २ चारं चरति, इचेसो चंदमासोऽभिगमणनिक्खमणबुद्धिणिबुद्धिअनवट्टितसंठाणसंटितीविउव्वणगिविपत्ते रूपी चंदे देवे २ आहितेति वदेजा ।।
वृ.'ताचंदेणअद्धमासेण मित्यादि ताइति पूर्ववत्चान्द्रेणअर्द्धमासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानि चरति ?, भगवानाह-'ता चोद्दसे'त्यादि चतुर्दश सचतुर्भागमण्डलानिपञ्चदशस्य मण्डलस्य चतुर्भागसहितानि मण्डलानि चरति, एकं च चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति?-परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्भाग-चतुर्विंशत्यधिकशतसत्कैकत्रिंशद्भागप्रमाणमेकंच चतुर्विंशशतभागं मण्डलस्य, सर्वसद्धयया द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान् चरतीति, कथमेतदवसीयते इति चेत्, उच्यते त्रैराशिकबलात्, तथाहि-- यदि चतुर्दिशत्यधिकेन पर्वशतेन सप्तदश शतान्यष्टषट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते?, अत्रान्वेन राशिना मध्यराशि ण्यते सच तावानेव जातः, तत्रायेन राशिना भागहरणं लब्धाश्चतुर्दश शेषास्तिष्ठन्ति हात्रिंशत् तत्र छेद्यच्छेदकराश्योर्विकेनापवर्तना क्रियते, तत इदमागच्छति-चतुर्दश मण्डलानि पञ्चदशस्य मण्डलस्य षोडश द्वाषष्टिभागाः । उक्तं चैतदन्यत्रापि॥१॥ “चोद्दस य मंडलाइं विसट्ठिभागा य सोलस हविज्जा ।
मासद्धेण उडुवई एत्तियमित्तं चरइ खित्तं ।।" 'ताआइच्चेण'मित्यादि, आदित्येनार्द्धमासेन चन्द्रः कतिमण्डलानि चरति?, भगवानाह'ता सोलसे'त्यादि, षोडश मण्डलानि चरति, षोडशमण्डलचारीच तदा अपरे खलु द्वे अष्टकेचतुर्विंशत्यधिकशतसत्कभागाटकप्रमाणे ये कनाप्यसामान्ये-कनायनाचीर्णपूर्वेचन्द्रः स्वयमेव प्रविश्य चारं चरति । 'कयराइं स्तु'दुवे इत्यादि प्रश्नसूत्रं सुगम, भगवानाह--इमाइं खलु एते खलु द्वे अष्टके ये केनाप्यनाचीर्णभूपें चन्द्रः स्वमेव प्रविश्य चारं चरति, तघधा-सर्वाभ्यन्तरामण्डलारहि-निष्कामवामावास्यान्ते एकमटकं केनाप्यनाचीर्णं चन्द्रः प्रविश्य चारं चरति, सर्वदाह्यात्मण्डला-दभ्यन्तरं प्रविशव पौर्णमास्यन्ते द्वितीयमष्टकं केनाप्यनाचीर्णं चन्द्रः प्रविश्य चारं चरति, ‘एयाइं खलु दुवे अहगाई' इत्यादि उपसंहारवाक्यं सुगम, इह परमार्थतो द्वौ चन्द्रौ एकेन चान्द्रेणार्द्धमासेन चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विंशत्यधि कशतभागान् भ्रमणेन पूरयतः परं लोकरूढया व्यक्तिभेदमनपेक्ष्य जातिभेदमेव केवलमाश्रित्य चन्द्रश्चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतंचतुर्विंशत्यधिकशतभागान्चरतीत्युक्त।
अधुना एकश्चन्द्रमा एकस्मिन्नयने कति अर्द्धमण्डलानि दक्षिणभागे कत्युत्तरभागे भ्रन्या पूरयतीति प्रतिपिपादयिपुर्भगदानाह–'ता पढमायणगए चंदे' इत्यादि, ता इति पूर्ववत्, प्रथमायनगते-प्रथमपयनं प्रविष्टेचन्द्रे दक्षिणस्माभागादभ्यन्तरं प्रविशति सप्त अर्द्धमण्डलानि भवन्ति यानि चन्द्रो दक्षिणस्माद् भागादभ्यन्तरं प्रविशन्नाकम्य चारं चरति ।
"कयराइं खलु'इत्यादि, प्रश्नसूत्रं सुगम, भगवानाह-'इमाइं खलु इत्यादि, इमानि खलु सप्तार्द्धमण्डलानि यानि चन्द्रो दक्षिणास्माद्भागादभ्यन्तरं प्रविशन्नाक्रम्य चारं चरति, तद्यथाद्वितीयमर्द्धमण्डलमित्यादि, सुगमं, नवरमियमत्र भावना-सर्ववाद्ये पञ्चदशे मण्डले परिभ्रमणेन पूरणमधिकृत्यपरिपूर्णेपाश्चात्ययुगपरिसमाप्तिर्भवति, ततोऽपरयुगप्रथमायनप्रवृत्तौप्रथमेऽहोरात्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336