Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उपोद्घात् नियुक्तिः कापासिकं, आदिग्रहणादण्डजवालजादेहणं, भावसूत्रं तु 'इह' अस्मिन्नधिकारे सूचकं ज्ञानंश्रुतज्ञानमित्यर्थ, तस्यैव स्वपरार्थसूचकत्वादिति । तच्च श्रुतज्ञानसूत्रं चतुर्द्धा भवति, तद्यथासंज्ञासूत्रं संग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञासूत्रं यत् स्वसंकेतपूर्वकं निबद्धं ।
तद्यथा-"जे छेए सागारियं न सेवे, सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्कारः क्षेत्रज्ञा इत्यादि । संग्रहसूत्रं तु यत्प्रभूतार्थसंग्राहकं, तद्यथाद्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह--इति, यदिवा 'उत्पादव्ययध्रौव्ययुक्तं सदिति, वृत्तनिबद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा
बुद्धिज्जत्ति तिउहिजेत्यादि, जातिनिबद्धं तु चतुर्द्धा, तद्यथा-कथनीयं कथ्यमुत्तराध्य यनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायत्वात्तस्य, तथा गद्यं ब्रह्मचर्याध्ययनादि, तथा पद्यं-छन्दोनिबद्धं, तथा गेयं यत् स्वरसंचारेण गीतिकापायनिबद्धं, तद्यथा कापिलीयमध्ययन 'अधुवेअसासयंमिसंसारंभिदुक्खपउराए' इत्यादि । इदानीं कृतपदनिक्षेपार्थं नियुक्तिकृद्गाथामाहनि. [४] करणं च कारओ य कडं च तिण्हपि छक्कनिक्खेवो ।
दव्वे खित्ते काले भावेण उ कारओ जीवो।। वृ. इह कृतमित्यनेन कर्मोपात्तं, न चाकर्तृकं कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्य, अमीषां त्रयाणामपि प्रत्येकं नामादि षोढा निक्षेपः, तत्र गाथापश्चार्द्धनाल्पवक्तव्यत्वात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धत्वादनाश्त्य द्रव्यादिकं दर्शयति।
"दव्वे' इति द्रव्यविषये कारकश्चिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो वा कारको द्रव्यकारकः, तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायतेस क्षेत्रकारकः, एवं कालेऽपि योज्यम्, 'भावेन तु' भावद्वारेण चिन्त्यमानो जीवोऽत्र कारको, यस्मात्सूत्रस्य गणधरः कारकः, एतश्च नियुक्तिकृदेवोत्तरत्र वक्ष्यति 'ठिइ अनुभावे'त्यादौ साम्प्रतं करणव्याचिख्यासया नामस्थापने मुक्त्वा द्रव्यादिकरणनिक्षेपार्थं नियुक्तिकृदाहनि. [५] दव्वं पओगवीसस पओगसा मूल उत्तरे चेव।
उत्तरकरणं वंजण अत्थो उ उवक्खरो सव्वो ।। वृ. 'द्रव्ये द्रव्यविषये करणं चिन्त्यते, तद्यथा-द्रव्यस्य द्रव्येण द्रव्यनिमित्तं वा करणम्अनुष्ठानं द्रव्यकरणं, तत्पुनर्द्विद्याप्रयोगकरणं विनसाकरणं च, तत्र प्रयोगकरणं पुरुषादिव्यापारनिष्पाद्यं, तदपि द्विविध-मूलकरणमुत्तकरणं च, तत्रोत्तरकरणं गाथापश्चार्द्धन दर्शयति
उत्तरत्रकरणमुत्तरकरणं-कर्णवेधादि, यदिवा तन्मूलकरणं घटादिकं येनोपस्करणदण्डचक्रादिना अभिव्यज्यते-स्वरूपतः प्रकाश्यतेतदुत्तरकरणं, कर्तुरुपकारकः सर्वोऽप्युपस्कारार्थ इत्यर्थः । पुनरपि प्रपञ्चतो मूलोत्तरकरणे प्रतिपादयितुमाहनि. [६] मूलकरणं सरीराणि पंच तिम कण्णखंधमादीयं ।
दबिंदियाणि परिणामियाणि विसओसहादीहिं ।। १. मूलकरणमौदारिकादीनिशरीरणि पञ्च, तत्र चौदारिकवैक्रियाहारकेषु त्रिषूत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि-- ‘सीसमुरोयर पिट्ठी दो बाहू उचचा य अटुंग'त्ति त्रयाणामप्येतन्निष्पत्तिर्मूलकरणं, कर्णस्कन्धाद्यङ्गोपाङ्गनिष्पत्तिस्तूत्तरकरणं, कार्मणतैजसयोस्तु
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 484