Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ उपोद्घात् नियुक्तिः ११ तथाऽनुभावोविपाकस्तदपेक्षया मन्दानुभावैः, तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीमन्दानुभावा बन्धद्भिः तथाऽनिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भिः तथा दीर्धस्थितिकाः कर्मप्रकृतीहसीयसीर्जनयद्भिः, तथोत्तरप्रकृतीबध्यमानासु संक्रायमद्भिः , तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्थैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदयेवर्तमानैः, तथावेदमङ्गीकृत्य पुंवेदे सति, तथा 'उवसमे'त्ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गब्धमिति । साम्प्रतं स्वमनषिकापरिहारद्वारेण करणप्रकारमभिधातुकाम आहनि. [१८] जोऊण जिनवरमतं गणहारी काउ तक्खओवसमं। अज्झवसाणेण कयं सूत्तमिणं तेण सूयगडं ।। वृ. 'श्रुत्वा' निशभ्य जिनवराणां-तीर्थकराणां मतम्-अभिप्रायं मातृकादिपदं 'गणधरैः' गौतमादिभिकृत्वा तत्र' ग्रन्थरचने क्षयोपशमं, तत्प्रतिबन्धककर्मक्षयोपशमाद्दत्तावधानैरितिभाव: शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति । इदानी कस्मिन् योगे वर्तमानैस्तीर्थकृद्भिाषितं ? कुत्र वा गणधरैर्दब्धमित्येतदाहनि. [१९] वइजोगेण पभासियमनेगजोगंधराण साहूणं। तो वयजोगेण कयं जीवस्स सभावियगुणेण ॥ वृ. तत्र 'तीर्थकृद्भि' क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थ प्रकर्षेण भाषितः प्रभाषितो गणधराणां, ते च न प्राकृतपुरुषकल्पाः किं त्वनेकयोगधराः, तत्र योगः-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषां, प्रभाषितमिति सूत्रकृताङ्गापेक्षया नपुंसकता, साधवश्चात्र गणधरा एव गृह्यन्ते । तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थं निशम्य गणधरैरपि वाग्योगेनैव कृतं, तच्च जीवस्य ‘स्वाभाविकेन गुणेनेति' स्वस्मिन् भावे भवः स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया लट्लिट्शप्रकृतिप्रत्ययादिविकारविकल्पनानिष्पन्नयेति ।। पुनरन्यथा सूत्रकृतनिरुक्तमाह- । नि. [२०] अक्खरगुणमितसंघायणा ए कम्मपरिसाडणाए य। तदुभययोगेण कयं सुत्तमिणं तेण सूत्तगडं । वृ.अक्षराणि-अकारादीनि तेषांगुणः-अनन्तगमपर्यायवत्त्वमुञ्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयितुमशक्यत्वात्, मतेः-मतिज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थ, अक्षरगुणस्य वा मत्या-बुद्धया संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया । तथा कर्मणां-ज्ञानावरणादीनांपरिशाटना-जीवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया, सूत्रकृताङ्ग कृतमिति संबन्धः, तथाहि-यथा यथा गणधराः सूत्रकरणायोद्यमं कुर्वन्ति तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति, एतदेव गाथापञ्चार्धेन दर्शयति-'तदुभययोगेनेति' अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटना योगेन च, यदिवा वाग्योगेन मनोयेगेन च कृतमिदं सूत्रं तेन सूत्रकृतमिति । इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम्, अधुना सूत्रपदस्य निरुक्तामिधित्सयाऽऽह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 484