Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
ग्रन्थपीठिका सुधारसायमान, ऐहिका-ऽऽमुष्मिकानन्तानन्दसन्दोहसाधनतया, पारमार्थिकोपदेश्यतया सर्वरससारभूतत्वाच्च शान्तरसभावनात्माऽध्यात्मकल्पद्रुमाभिधानग्रन्थान्तरग्रथननिपुणेन पद्यसंदर्भेण भाव्यते, तद्यथा -
अथ'इति 'पद्यसन्दर्भण भाव्यते'-इति सक्षेपेणान्वयः, तत्र अथशब्द आनन्तर्यार्थो मङ्गलार्थो वा, आनन्तर्यं च उपदेशरत्नाकराद्यनेकग्रन्थग्रथनेन सकल श्रोतृणां मोक्षाभिमुखीकरणात्, आनन्तर्यप्रतिपादनेन च, उपदेशरत्नाकरादिग्रन्थग्रथनानन्तरं तदुपनिषद्भूतमवसरायातमध्यात्मशास्त्रं ग्रथनीयमित्यवसरसङ्गतिरपि दर्शितेति। मङ्गलार्थता च - "ॐकारश्चाथशब्दश्च, द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ, तेन माङ्गलिकावुभौ" ।। [ ] इतिवचनात्;
मङ्गलार्थतया च प्रारिप्सितप्रतिबन्धकदुरितनिवारणार्थं शिष्य शिक्षार्थं च ग्रन्थारम्भे मङ्गलं विधेयमिति शिष्टाचारोऽपि सत्यापितो भवति-इति मङ्गलमपि च दर्शितं भवति ।
'अयम्'-इति ग्रन्थकर्तुर्मानसप्रत्यक्षः, 'इदमः प्रत्यक्षगते' इति [ ] वचनात्, प्रत्यक्षेण स्वयमनुभूतः अस्मिन् ग्रन्थेऽनुभाव्यमानो वा,
रसविचार:
'श्रीमान्'इति सकलदर्शनसाम्मत्येन शोभावान्, महानन्दपदप्रापणप्रवणशक्तिसम्पत्तिमान् वा; __ "शान्तनामा'इति शम्यते स्म शान्तः, 'णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्तज्ञक्तम् (सि० ४-४-७७) इत्यादिना साधुः, शान्त इति नाम-अभिधानं यस्य स तथा, अत्र शान्तशब्दः पुल्लिङ्गे, मतान्तरेण नपुंसकलिङ्गे, यत उक्तम् -
"हास्यादयस्तु पुंल्लिङ्गाः" । [९] गौडस्तु-"शृङ्गार-वीरौ बीभत्सं, रौद्रं हास्यं भयानकम् ।
करुणा चाद्भुतं शान्तं, वात्सल्यं च रसा दश" || [ ] १.०ल श्री श्रो० । २.०ष्यप्रशिष्यशि० ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 398