Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 17
________________ श्रीअध्यात्मकल्पद्रुमे इति लिङ्गनिर्णयमाहेति नाममालावृत्तौ । [ ] अथ 'शान्तनामा' इत्यस्य विशेष्यमाह-रसाधिराज इति, रसेषु शृङ्गारादिषु काव्यप्रकाशमतेनाष्टसु, त्रिकोटीग्रन्थकारक-कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरोपज्ञकाव्यानुशासनमतेन शान्तसमन्वितेषु नवसु, गौडमतेन वात्सल्यसहितेषु दशस । अधिको राजा अधिराजः चक्रवर्ती, 'राजन्सखे' (सि. ७-३-१०६) इत्यनेन अट्' समासान्तः, अत्र राज्ञ इव नरत्वे सति नरेन्द्रतावत, शान्तस्य रसत्वे सति रसाधिराजता भवति इति । शान्तस्य च स्वसंवेद्याऽलौकिकचमत्कारकारितया परब्रह्माऽऽस्वादसोदरत्वेनार्धोन्मीलितनयनैर्योगीश्वरैः कवि-सहृदयैर्वा रस्यमानत्वात्चळमाणत्वात् रसत्वम्; अत्र शान्तरसे च रसतास्वरूपनिरूपणाय विभावादयस्त्रयो भावा भावनीया इति, वैराग्य-संसारभीरुता-तत्त्वज्ञान-वीतरागपरिशीलन-परमेश्वरानुग्रहादीनां विभावत्वम्, यम-नियमा-ऽध्यात्मशास्त्रचिन्तनादीनाम् अनुभावत्वम्, धृति-स्मृतिनिर्वेद-मत्यादीनां व्यभिचारित्वम्, एतैत्रिभिर्भावैर्व्यक्तस्य तृष्णाक्षयरूपस्य शमस्य स्थायिभावत्वम् भवति, अस्यैव चर्वणाप्राप्तस्य शान्तरसत्वं भवति, यथा[भर्तृहरिवैराग्यशतके-४१] [१०] "गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य, ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः , संप्रोप्स्यन्ते जरठहरिणाः शृङ्गकण्डूविनोदम् ? ।। अत एवाहुः श्रीहेम(चन्द्र)सूरिचरणा अलङ्कारचूडामणौ - "वैराग्य-संसारभीरुता-तत्त्वज्ञान-वीतरागपरिशीलन-परमेश्वरानुग्रहादिः-विभावः, यम-नियमा-ऽध्यात्मशास्त्रचिन्तनादिः-अनुभावः, धृति-स्मृति-निर्वेद-मत्यादि:व्यभिचारी, तृष्णाक्षयरूपः शमः स्थायिभावश्चर्वणाप्राप्तः शान्तो रस इति" १. अत्रे 'ग्रन्थ' शब्दः श्लोकार्थः इति ज्ञेयम् । २. 'कण्डूयन्ते जरठहरिणाः शृङ्गमङ्गे मदीये' इत्यपि पाठः |

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 398