________________
श्रीअध्यात्मकल्पद्रुमे इति लिङ्गनिर्णयमाहेति नाममालावृत्तौ । [ ]
अथ 'शान्तनामा' इत्यस्य विशेष्यमाह-रसाधिराज इति, रसेषु शृङ्गारादिषु काव्यप्रकाशमतेनाष्टसु, त्रिकोटीग्रन्थकारक-कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरोपज्ञकाव्यानुशासनमतेन शान्तसमन्वितेषु नवसु, गौडमतेन वात्सल्यसहितेषु दशस । अधिको राजा अधिराजः चक्रवर्ती, 'राजन्सखे' (सि. ७-३-१०६) इत्यनेन अट्' समासान्तः, अत्र राज्ञ इव नरत्वे सति नरेन्द्रतावत, शान्तस्य रसत्वे सति रसाधिराजता भवति इति । शान्तस्य च स्वसंवेद्याऽलौकिकचमत्कारकारितया परब्रह्माऽऽस्वादसोदरत्वेनार्धोन्मीलितनयनैर्योगीश्वरैः कवि-सहृदयैर्वा रस्यमानत्वात्चळमाणत्वात् रसत्वम्;
अत्र शान्तरसे च रसतास्वरूपनिरूपणाय विभावादयस्त्रयो भावा भावनीया इति, वैराग्य-संसारभीरुता-तत्त्वज्ञान-वीतरागपरिशीलन-परमेश्वरानुग्रहादीनां विभावत्वम्, यम-नियमा-ऽध्यात्मशास्त्रचिन्तनादीनाम् अनुभावत्वम्, धृति-स्मृतिनिर्वेद-मत्यादीनां व्यभिचारित्वम्, एतैत्रिभिर्भावैर्व्यक्तस्य तृष्णाक्षयरूपस्य शमस्य स्थायिभावत्वम् भवति, अस्यैव चर्वणाप्राप्तस्य शान्तरसत्वं भवति, यथा[भर्तृहरिवैराग्यशतके-४१]
[१०] "गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य,
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः ,
संप्रोप्स्यन्ते जरठहरिणाः शृङ्गकण्डूविनोदम् ? ।। अत एवाहुः श्रीहेम(चन्द्र)सूरिचरणा अलङ्कारचूडामणौ - "वैराग्य-संसारभीरुता-तत्त्वज्ञान-वीतरागपरिशीलन-परमेश्वरानुग्रहादिः-विभावः, यम-नियमा-ऽध्यात्मशास्त्रचिन्तनादिः-अनुभावः, धृति-स्मृति-निर्वेद-मत्यादि:व्यभिचारी, तृष्णाक्षयरूपः शमः स्थायिभावश्चर्वणाप्राप्तः शान्तो रस इति" १. अत्रे 'ग्रन्थ' शब्दः श्लोकार्थः इति ज्ञेयम् । २. 'कण्डूयन्ते जरठहरिणाः शृङ्गमङ्गे मदीये' इत्यपि
पाठः |