SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ग्रन्थपीठिका सुधारसायमान, ऐहिका-ऽऽमुष्मिकानन्तानन्दसन्दोहसाधनतया, पारमार्थिकोपदेश्यतया सर्वरससारभूतत्वाच्च शान्तरसभावनात्माऽध्यात्मकल्पद्रुमाभिधानग्रन्थान्तरग्रथननिपुणेन पद्यसंदर्भेण भाव्यते, तद्यथा - अथ'इति 'पद्यसन्दर्भण भाव्यते'-इति सक्षेपेणान्वयः, तत्र अथशब्द आनन्तर्यार्थो मङ्गलार्थो वा, आनन्तर्यं च उपदेशरत्नाकराद्यनेकग्रन्थग्रथनेन सकल श्रोतृणां मोक्षाभिमुखीकरणात्, आनन्तर्यप्रतिपादनेन च, उपदेशरत्नाकरादिग्रन्थग्रथनानन्तरं तदुपनिषद्भूतमवसरायातमध्यात्मशास्त्रं ग्रथनीयमित्यवसरसङ्गतिरपि दर्शितेति। मङ्गलार्थता च - "ॐकारश्चाथशब्दश्च, द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ, तेन माङ्गलिकावुभौ" ।। [ ] इतिवचनात्; मङ्गलार्थतया च प्रारिप्सितप्रतिबन्धकदुरितनिवारणार्थं शिष्य शिक्षार्थं च ग्रन्थारम्भे मङ्गलं विधेयमिति शिष्टाचारोऽपि सत्यापितो भवति-इति मङ्गलमपि च दर्शितं भवति । 'अयम्'-इति ग्रन्थकर्तुर्मानसप्रत्यक्षः, 'इदमः प्रत्यक्षगते' इति [ ] वचनात्, प्रत्यक्षेण स्वयमनुभूतः अस्मिन् ग्रन्थेऽनुभाव्यमानो वा, रसविचार: 'श्रीमान्'इति सकलदर्शनसाम्मत्येन शोभावान्, महानन्दपदप्रापणप्रवणशक्तिसम्पत्तिमान् वा; __ "शान्तनामा'इति शम्यते स्म शान्तः, 'णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्तज्ञक्तम् (सि० ४-४-७७) इत्यादिना साधुः, शान्त इति नाम-अभिधानं यस्य स तथा, अत्र शान्तशब्दः पुल्लिङ्गे, मतान्तरेण नपुंसकलिङ्गे, यत उक्तम् - "हास्यादयस्तु पुंल्लिङ्गाः" । [९] गौडस्तु-"शृङ्गार-वीरौ बीभत्सं, रौद्रं हास्यं भयानकम् । करुणा चाद्भुतं शान्तं, वात्सल्यं च रसा दश" || [ ] १.०ल श्री श्रो० । २.०ष्यप्रशिष्यशि० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy