________________
श्रीअध्यात्मकल्पद्रुमे [६] इति निश्चित्य चेतोऽन्तर्यत्यतेऽत्यल्पबुद्धिना ।
मयाऽस्मिन प्रस्तुते कार्ये, स्वपरोबोधहेतवे ||६|| [७] अध्यात्मकल्पद्रुमशास्त्रभावफलाप्तयेऽसावधिरोहणीव ।
व्याख्या पदस्थानसुखाधिगम्या विधीयते स्वीयगुरुप्रसादात् ।।७।। [८] पण्डिता अपि पश्यन्ति, बालक्रीडां चमत्कृताः |
तद्वत् पश्यन्तु तत्प्रायां, ते व्याख्यां मत्कृतामिमाम् ।।८।। धनवि.-टीकारम्भः -
इह हि प्रेक्षावत्प्रवृत्तिहेतवो धर्मा-ऽर्थ-काम-मोक्षाख्याश्चत्वारः पुरुषार्था भवन्ति, तत्रार्थ-कामौ परस्परं कार्य-कारणभावापन्नौ पुरुषार्थो संसाराधिकारिणां भवतः, मोक्षाधिकारिणां तु धर्म-मोक्षौ पुरुषार्थौ भवतः, तत्रापि धर्म-मोक्षयोः कार्यकारणभावात् कार्यस्य मोक्षस्यैव प्राधान्येन परमपुरुषार्थत्वम्,
अत एव च तदधिकारिभिः सहस्रावधानधारिभिः साक्षात्सरस्वत्यनुकारिभिः श्रीसोमसुन्दरसूरिपट्टालङ्कारिभिः श्रीतपागच्छनायक-युगप्रधानसमान-श्रीमुनिसुन्दरसूरिगणधारिभिर्मोक्षस्यासाधारणोपायभूतं स्वयमनुभूतं शान्तरसमुपदेशद्वारेण 'परेषु प्रकाशयद्भिः शान्तरसभावनात्मा, अध्यात्माकल्पद्रुमाभिधानग्रन्थो ग्रथित इति, मयाऽपि शान्तरसार्थिना तद्व्याख्या प्रस्तूयत' इति ।
ननु शास्त्रारम्भे निर्विघ्नतया शास्त्रसमाप्त्यर्थं प्रेक्षावतां प्रवृत्त्यर्थं च मङ्गलविषय-प्रयोजन-संबन्धाधिकारिणो वक्तव्याः, उपोद्घात-प्रसङ्गा-ऽनवसराभिधास्तिस्रः सङ्गतयोऽपि दर्शनीयाश्च भवन्ति-इत्येतच्छास्त्रारम्भे के मङ्गल-विषय-प्रयोजनसंबन्धाधिकारिणः ? का च सङ्गतिः ?, इत्याकाङ्क्षायाम्, 'अथायम्'इत्यादिना भाव्यते इत्यन्तेन वाक्येन ग्रन्थकारो मङ्गल-विषय-प्रयोजन-संबन्धाधिकारिणोऽवसरसङ्गतिं च दर्शयन् ग्रन्थपीठिकां रचयंश्चाह
अथायं श्रीमान् शान्तनामा रसाधिराजः सकलागमादिसुशास्त्रार्णवोपनिषद्भूतः
१. परेषां० । २. व्यते० । ३. - 'अथेति' को० ।