SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ग्रन्थपीठिका [काव्यानु० अ० २ सू० १८] । न चास्य विषयजुगुप्सारूपत्वाद् बीभत्सेऽन्तर्भावोऽपि युक्तः, जुगुप्सा हि व्यभिचारिणी भवति, न तु स्थायितामेति, पर्यन्तनिर्वाहे तस्या मूलत एवोच्छेदात्, न च धर्मवीरेऽन्तर्भावः, तस्याभिमानमयत्वात्, अस्य चाभिमान-प्रशमैकरूपत्वात्, तथापि तयोर्धर्मवीर-शान्तयोरेकत्वकल्पने वीर-रौद्रयोरपि तथात्वप्रसङ्गः, धर्मवीरादीनां चित्तवृत्तिविशेषाणां सर्वथाऽहङ्काररहितत्वे शान्तरसप्रभेदत्वम्, अहङ्कारसहितत्वे तु वीररसप्रभेदत्वम्, इति व्यवस्थाप्यमाने न कश्चिद् विरोध इति । न चास्य शृङ्गारादिष्वन्तर्भावः, तेषां रागादिमयत्वाद्, अस्य च रागादिराहित्यस्वरूपनिरूपणात । अतः स शान्तरसः सर्वेभ्यो रसेभ्योऽतिरिक्तो नवमो रसोऽभ्युपगन्तव्यः । न च स्थायिभावचळमाणरूपयोः शम-शान्तयोः पर्यायत्वमाशङ्कनीयम्, हास्य-हासयोरिव सिद्ध-साध्यतया लौकिका-ऽलौकिकतया साधारणा-ऽसाधारणतया वा वैलक्षण्यात्, किमुक्तं भवति ? - अत्र विषयाघभिलाषाभावे केवलात्मस्वभावः शमः स्थायी भावः समवायिकारणस्थानीयो, यम-नियमा-ऽध्यात्मशास्त्रचिन्तनादिःअनुभावोऽसमवायिकारण-स्थानीयः, इति शान्तरसस्वरूपं प्रसङ्गतो दर्शितम्, अत्र विशेषार्थिना 'काव्यानुशासनापरनामालङ्कारचूडामणिविवेकाधलङ्कारशास्त्रं विलोक्यमिति । रसाधिराजत्वं च वक्ष्यमाणेन ऐहिक'इत्यादिना हेतुत्रयेण व्यक्तं भविष्यतीति नात्र दर्शितम् । अथ तमेव शान्तरसाधिराजं विशिनष्टि-'सकलागमादिसुशास्त्रार्णवोपनिषद्भूतसुधारसायमानः' सकला-समस्ताश्च ते आगमाश्च-आचाराङ्गादयः, ते आदौ येषां, तानि च तानि सुशास्त्राणि च, आदिपदात् पूर्वाचार्यविरचितानि योगमार्गाऽध्यात्ममार्गप्रतिपादकान्युपाङ्ग-प्रकीर्णक-प्रकरणादीनि धर्मशास्त्राणि, तान्येवार्णवाःसमुद्राः, तेषामुपनिषद्-रहस्यं, तद्भूतः-तत्सदृशो यः सुधारसः-अमृतरसः, स १. अत्रे काव्यानुशासनम् इति ग्रन्थनाम, तत्र स्वोपज्ञे 'अलङ्कारचूडामणिः इति लघ्वी तथा 'विवेक ___ इति बृहती-इति द्धे वृत्तीस्त' इति बोध्यम् - २. 'अत्र' भूतशब्दः सादृश्यार्थकः तुलना... भुवन भूषणभूतनाथ-(भक्तामरस्तोत्र-१०) ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy