________________
श्रीअध्यात्मकल्पद्रुमे
इवाचरतीति तथा, अयमाशयो - यथा सकलसमुद्ररहस्यं सुधारसो भवति तथा सकलधर्मशास्त्ररहस्यं शान्तरसो भवतीति, अनेन विषयसूचा ।
अथान्यरसभावनपरिहारेण शान्तरसस्यैव भावनायां रसाधिराजत्वे च परम्परया हेतु प्रथमं हेतुमाह
"ऐहिका -ऽऽमुष्मिका ऽनन्ताऽऽनन्दसन्दोहसाधनतया " ऐहिकश्च - इहलोकसंबन्धी, आमुष्मिकश्च-परलोकसंबन्धी, स चासौ अनन्तश्च - अविनाशी स चासौ - आनन्दश्चसुखानुभवः, तस्य सन्दोह :- समूहः, तस्य साधनतया - हेतुत्वेन, ऐहिकाऽनन्ताऽऽनन्दसाधनत्वं च शान्तरसवतामनुभवसिद्धम् ।
यदाहुः-उमास्वाति-वाचकपादाः प्रशमरतिप्रकरणे
६
[११] "नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य ।
यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ।।[१२८]।।" इति आमुष्मिकाऽनन्ताऽऽनन्दसाधनत्वं चाऽऽगमगम्यमिति, अनेन प्रयोजनसूचा । तत एव द्वितीयं हेतुमाह
"पारमार्थिकोपदेश्यतया " - परमार्थः- तत्त्वं तत्संबन्धी पारमार्थिकः, तात्त्विक इत्यर्थः, स चासौ उपदेश्यश्च - परहितहेतुतया कथनार्हः, स तथा [ तद्भावस्तत्ता]तया, यद् वा परमार्थं-परमपुरुषार्थं मोक्षं स्वाधिकारतया विदन्तीति पारमार्थिकानिःस्पृहाः-तेषामुपदेश्यतयेत्यनेन, अधिकारिसूचा, पारमार्थिकोपदेश्यत्वमपि सदा सुभगस्य शान्तरसस्यैव, 'शान्तादिषु विरसानां शृङ्गारादीनां तत्त्वतोऽनुपदेश्यत्वादित्यर्थः ।
यदाहुर्वाचकपादाः प्रशमरतिप्रकरणे
-
-
[१२] "आदावभ्युदयकरा मध्ये शृङ्गार - हास्य- दीप्तरसाः । निकषे विषया बीभत्स - करुण-लज्जा भयप्रायाः" ।। १०६ ।। इति
निकषे इति विशिष्टसंयोगोत्तरकालमित्यर्थः, यद् वा शृङ्गारादीनां भोजनवत् प्रवृत्तिरूपत्वेन स्वतः सिद्धत्वात्, तत्त्वतोऽनुपदेश्यत्वम्, शान्तरसस्य तु निवृत्तिरूपत्वेनोपायसाध्यत्वात् पारमार्थिकोपदेश्यत्वम् ।
१. प्रान्तादि० ।