Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 8
________________ Jain Education I अस्माकं तु सूत्राण्येव प्रमाणानि तेषु तु न निरूपितानि संस्कारादीनि कर्माणि भाष्यचूर्णिप्रभृतीनि व्याख्यानपुस्तकानि तु न प्रमाणानि पामरप्रकृतिकृतत्वादिति वादिनो दर्दुरानन्दानन्ददायिनः स्थानकवासिनोऽपि पामरा एव । निरूपितानामेव प्रवाहागतानां संस्कारादिकर्मणां सम्मततया विशिष्य पिष्टपेषस्यानावश्यकतयाऽऽगमानां पदार्थनिरूपणस्यैव प्रधानविषयतया च प्रतिपद्यानुक्तत्वेऽपि जन्मतः प्रभृति बोधचतुष्टयसंपदामपि यावतामेव तीर्थकृतां चरितप्रस्तावप्रसङ्गे विद्वद्भिः पितृभिराचरितानां तेषां स्वयंकृतानां दानादीनां सूत्रेष्वेव च चर्चितत्वात् सूत्रसूत्रितरहस्यस्य सर्वसाधारण वेद्यस्य प्रकाशकतया सूत्रानुगतानां भाष्यादिमहा निबन्धानां प्रामाण्ये विदुषांमाहतानां वैमत्याभावात् सूत्रतत्कर्त्तुतद्वर्त्तु महत्वबोधैक हेतवो भाष्यादयो ग्रन्था येषां न प्रमाणानि कतिपयदोहा चौपाई चण्डोच्चारणचतुराणां निशाच्यासानां तेषां सूत्राणामेव प्रामाण्यं कथमवगतमित्यत्रैवोपपत्तेर सद्भावात् । विद्वद्दर्शनीयस्यास्याचारदिनकरस्याविष्कर्त्ता शुभनामधेयः श्रीवर्धमानसूरिः । अयं च खरतरगच्छादिमाचार्यस्य दादाजीतिपरमादरास्पदापराभिधेयेन प्रसिद्धस्य देवनिर्विशेषपूजाभाजनस्य चैत्यवासिशिथिला चारोपकेशग छमुनीनां राज्ञो दुर्लभस्य सभायां पररभवकर्तुः सूविर्यस्य श्रीजिनेश्वर सूरेर्गुरुवर्यः । श्रीजिनेश्वरसूरिशास्त्रार्थसमयस्तु खाष्टखेन्दु १०८० मितो बैक्रमाब्दो महाजनवंशमुक्तावलीतः प्रतीयते । श्रीवर्धमानसूरेर स्तित्वं शास्त्रार्थसमय आसीद्वा नासीदित्यत्र यद्यपि प्रमाणं नोपलभ्यते तथापि विदुषो गुरोरपि विनेयस्यापि श्रीजिनेश्वरसूरेरेव प्रसिद्धिवैशिष्ट्याच्छक्यमुन्नेतुं नासीत्तदानीमस्तित्वं श्रीवर्धमानसूरेः । अनेनैव त्रयोदशराजमान्येन मुनिना प्रतिबोधितः पारैवालगोत्रायैः कारितमपरपर्वतमिवार्बुद पर्वते लोकोत्तरं मन्दिरमथापि शिल्पसंश्रयतोऽद्वितीयमेव वर्त्तते । सूरेर प्रतिममागमज्ञत्वं पाण्डित्यं For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 566