Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1353
________________ धम्म 2675 - अभिधानराजेन्द्रः - भाग 4 धम्म ति) स कर्मपरिहा कायवाङ्मनोभिर्न हिनस्ति जन्तून. न घातयत्यपरै प्यनुमन्यते / किञ्च-पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकारं वा संयम करोति संयमयति, आचारक्विवन्तं वैतत्-संयम इवाऽऽचरति संयमयति। किंच-(नोपगभइ) 'गल्भ' धाष्ट्ये , अरायमकर्मसु प्रवृत्तः सन् नप्रगल्भत्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिहेति न धृष्टतामवलम्बते इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिन कुध्यति न जात्यादिमानमुद्वहति, न वश्चानां विधत्ते, न लुभ्यति / किमाकलय्यैतत् कुर्यादित्याह-(उवेहमाणे त्ति) उत्प्रेक्षमाणोऽवगच्छन् प्रत्येक प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नाऽपि परदुःखेन दुःखी, अतः प्राणिनो न हिंस्यात् / इति प्राणिनां प्रत्येक सातमुत्प्रक्षमाणश्च किं कुर्यादित्याह- वर्ण्यते प्रशस्यते येन स वर्णः साधुकारस्तदादेशी वर्णाऽऽदेशी वर्णाभिलाषी सन्नारभते कञ्चन पापाऽ5रम्भ सर्वस्मिन्नपि लोके, यदि वा तपः संयमाऽऽदिकमप्यारम्भ यशः कीत्यर्थ नाऽऽरभते, प्रवचनोद्भावनार्थ त्वारभते। तदुद्भावकाश्चामी"प्रावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च / विद्यासिद्धः ख्यातः, कविरपि चोद्भावकास्त्वष्टौ / / 1 / / " यदि वा वों-रूपं तदादेशी-तदभिलाषुकः, नोर्द्धतनाऽऽदिका: क्रिया आरभेत, किंभूतः रान्नेतत् कुर्यादित्याह- (एगप्पमुहे) एको मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषरहितत्वात्तत्र प्रगत मुख यस्य स तथा, मोक्षे तदुपाये वा दत्तैकदृष्टिर्न कञ्चन पापाऽऽरम्भमारभेत इति / किञ्च-मोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् ता प्रकर्षण तीर्णो विदिक्प्रतीर्णः, स चैवंभूतः सन्नारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः। किञ्च-(निवि-णचारी) चरणं चारः अनुष्ठान, निर्विण्णस्य चारो निर्विण्णचारः, सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत्? यतः प्रजास्वरतः प्रजायन्त इति प्रजाः प्राणिनः तत्रारतः तदारम्भा निवृत्तो निर्ममत्वोवा, यश्च शरीराऽऽदिष्यपि ममत्वरहितः स निर्विण्णचार्येव भवति, यदि वा प्रजाः स्त्रियस्तास्वरत आरम्भेऽपि निर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति। यश्च प्रजास्वरक्त आरम्भरहितः, स किंभूतः स्यादित्याहसे वसुमं सव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिज्ज पावं कम्मं तं णो अण्णेसी, जं सम्मं ति पासहा तं मोणं ति पासहा जं मोणं ति पासहा तं सम्मं ति पासहा, ण इमं सकं सिढिले हिं अदिज्जमाणे हिं, गुणासातेहिं वंक समायारेहिं पमत्ते हिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं च सेवंतिवीरा सम्मत्तदंसिणो, एस ओहंतरे मुणी,तिण्णे मुत्ते विरए वियाहिए त्ति वेमि। 155|| (से वसुम) वसु द्रव्यं, स चात्र संयमः, तद्विद्यते यस्य स निवृत्ताऽऽसम्भो मुनिर्वसुमान् (सव्वसमन्नागय ति) सर्वं सम्यगन्वागतं प्रज्ञानं पदार्थाऽऽविर्भावकं यस्याऽऽत्मनस्तेनाऽऽत्मना सर्वसमन्वागतप्रज्ञानरूपाऽऽपन्नेन यदकर्तव्यं पापं कर्म तन्नो कदाचिदप्यन्वेषति, उपलब्धपरमार्थरूपेणाऽऽत्मना न सावद्यानुविधायी स्यादिति भावार्थः। यदेव सम्यग्प्रज्ञानं तदेव पापकर्मवर्जन, यदेव पापकर्मवर्जन तदेव च सम्यग्प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-- सम्यगिति सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितम्, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनसंयमानुष्ठान-मित्येतत्पश्यत्, यच्च मौनमित्येतत्पश्यत तत्सम्यग्ज्ञानं नैश्चयिक सम्यक्त्वं वा पश्यत, ज्ञानस्य विरति-फलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्य-वसेयेति भावार्थः / एतच्च न येन केनचिच्छक्यमनुष्ठातुमित्याह-- नैतत्सम्यक्त्वाऽऽदित्रयं सम्यगनुष्ठातुं शक्यं, कैः? शिथिलैः अल्पपरिणामतया मन्दवीर्य : संयमतपसोऽतिद्रढिमरहितैरिति / किश्व(आदिज्जमाणेहिं) आर्दैः पुत्रकलत्राऽऽद्यनुषनजनितस्नेहादाद्रीक्रियमागैरेतत् पूर्वोक्तमशक्यमिति संबन्धः, किश-(गुणासाएहि) गुणाः शब्दाऽऽदयस्तेषु आस्वादो येषां ते गुणाऽऽस्वादास्तैरिति / किञ्च(वंकसमायरेहिं) वक्र:- समाचारो येषां ते तथा, तैर्मायाविभिरित्यर्थः / (पमत्तेहिं) विषयकषायाऽऽदिप्रमादैः प्रमत्तैरिति / (गारमावसंतेहिं) अगारं गृह तदाद्याक्षरलोपागारमित्युक्तं तदागारमावसद्भिः सेवमानैः पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योज्यम् / कथं तर्हि शक्यमित्याह-- (मुणी गोण रामायाए धुणे सरीरगं पंत लूहं च सेवंति वीरा सम्मत्तदसिणो) (मुणी मोण ति) मुनिर्जगत्त्रयस्य मन्ता मौन मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं समादाय गृहीत्वा धुनीयाच्छरीरकमौदारिक कर्मशरीरं वा / कथं च तस्य धुननमित्याह-प्रान्तं पर्युषितं वल्लचणकाद्यल्पं वा तदपि रूक्षं विकृतेरभावात्तत् सेवन्ते तदभ्यवहरन्ति, के ते? वीराः कर्मविदारणसहिष्णवः, किंभूताः? सम्यक्त्वदर्शिनः, समत्यदर्शिनो वा / यश्च प्रान्तरूक्षसेवी सकिंगुणः स्यादित्याह-(एस ओहंतरे मुणी) एषोऽनन्तरोक्तविशेषणविशिष्टः ओघो भावौधः संसारस्तं तरतीति / कोऽसौ? मुनिः "वर्तमानसमीप्ये वर्तमानवद्वा" / / 3 / 3 / 131 // इति तीर्णएवासौ, स बाह्यभ्यन्तरसङ्गाभावान्मुक्तः, कश्चैवंभूतो? यः सावद्यानुष्ठाना-द्विरत इत्येवं व्याख्यातः / इतिरधिकारसमाप्तौ / ब्रवीमिति पूर्ववत। आचा०१ श्रु०५ अ०३ उ०।। इह त्रीणि वयासि-युवा मध्यवया वृद्धश्चेति, तत्र मध्यवयाः परिपक्वबुद्धित्वाद्धार्ह इत्येतद्दर्शयति-- मज्झिमेणं वयसा एगे संबुज्झमाणा समुट्ठिता सोचा मेधावी वयणं पंडियाणं णिसामित्ता समयाए धम्मे आयरिएहिं पवेदिते ते अणवकं खमाणा अणतिवाएमाणा अपरिग्गहमाणा णो परिग्गहावंति सव्वावंति च णं लोगंसि णिहाय दंडं पाणे हिं अकुव्वमाणे एस महं अगथे वियाहिए। युवा मध्यवया वृद्धश्चेति / तत्र मध्यमवयाः परिपक्वबुद्धित्वाद्धार्ह इत्यतो दर्शयति- मध्यमेन वयसाऽयेके संबुद्धयमाना धर्मचरणाय सम्यगुस्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्यायोग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहलइति निष्प्रत्यूहधर्मा - धिकारीति मध्यमवयोग्रहणम् / कथं संबुद्धमानाः समुत्थिता इत्याह(सोच्चा इत्यादि) इह विविधाः संबुद्ध्यमानका भवन्ति / तद्यथास्वयंबुद्धाः, प्रत्येकबुद्धाः, बुद्धबोधिताश्च / तत्र बुद्धबोधितेनेहाधिकार इति दर्शयति-मेधावी मर्यादाव्यवस्थितः पण्डिताना तीर्थकृदादीना वचन हिताहितप्राप्तिपरिहारप्रवर्तकं श्रुत्वाऽऽकर्ण्य पूर्वं पश्चान्निशम्याऽऽ

Loading...

Page Navigation
1 ... 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456