Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1451
________________ निअंब 2773 - अभिधानराजेन्द्रः - भाग 4 निग्गहट्ठाण निब-पुं०(नितम्ब) कटिपश्चाद् मागे, कटके च / वाच०। "रमणतियं निअंबो।" को० 115 गाथा। निअंबिणी-स्त्री०(नितम्बिनी) स्त्रियाम्, को० 12 गाथा / (अस्यैकार्थिकानि 'नारी' शब्दे गतानि) निअंसण-न०(निवसन) परिधाने, औ०। जीवा०। उत्त०। कटीवस्त्र, "जाण सिचयं कडिल्लं, निअसणं साहुली य परिहणयं। ''को०६६ गाथा / निअक्कल-त्रि०(निअक्कल) गोलाऽऽकारे, ''पेढाल-निअक्कल वटुलाई परिमंडलस्थम्मि।'को० 84 गाथा। देना। निअगुणसलाहा-स्त्री०(निजगुणश्लाघा) स्वगुणप्रशंसायाम्, 'विगत्थण निअगुणसलाहा।" को०२४७ गाथा। निअत्त-त्रि०(निवृत्त) "निवृत्तवृन्दारके वा'' 181 / 132 / / इति ऋत उद्धा / 'निवृत्त / निअत्तं / ' विरते, प्रा०१ पाद / निअय-त्रि०(नियत) नियमिते, "निचं निअयं सासयं / " को० 160 गाथा / सूत्र० / बृ० ('निच' शब्देऽस्य बहून्येकार्थिकानि (153) गाथार्द्धन प्रतिपादितानि) * निजक-त्रिका स्वकीये, "अप्पुल्लयंनिअयं।" को०२३१ गाथा। आव०। निअर-पुं०(निकर) समुदाये, को०१५-१६-गाथा / (अस्यै कार्थिकानि निउरंब' शब्दे वक्ष्यते) निअलिअ-त्रि०(निगडित) बद्धे, "बद्ध संदाणिअंनिअलिअंच।'' को० 167 गाथा। निआण-न०(निदान) आदिकारणे, को० 176 गाथा। (अत्र विशेषः 'णियाण' शब्देऽस्मिन्नेव भागे 2064 पृष्ठे गतः) निउंचिअ-त्रि०(निकुञ्चित) संकुचिते, "संकोडिअं निउचिओ' को० 186 गाथा। निउण-त्रि०(निपुण) कुशले. "चउरा निउणा कुसला, छेआ विउसा बुहा य पत्तट्ठा।" को०६० गाथा / (अस्य शब्दस्य बहवोऽर्थाः 'णिउण' शब्देऽस्मिन्नेव भागे 2017 पृष्ठे दर्शिताः) * निगुण-त्रि०ा नियतगुणे, विशे०। निउरब-पुं०(निकुरम्ब) समूह, एकार्थिकानि- "उप्पंको उप्पीलो, उक्केरो पहयरो गणो पयरो। ओहो निवहो संघो, संघाओ संहरो निअरो ||१८||संदोहो निउरबो, भरो निहाओ।" को०१५-१६-गाथा। औ०। राजी। निलिव-त्रि०(निष्कृप) निर्दये, "निबंधसा निसंसा, निधुड्डा निक्किवा अकरुणा य / " को०७३ गाथा / पं०व०। (अस्य लक्षणं 'णिक्वि' शब्देऽस्मिन्नेव भागे 2022 पृष्ठे द्रष्टव्यम्) निक्खय-त्रि०(निक्षत) 'णिक्खय' शब्दार्थे, को०२४० गाथा। देना। निक्खित्त-त्रि०(निक्षिप्त) "णिक्खित्त' शब्दार्थे, "निमिअं निहिअंच निक्खित्तं / ' को० 163 गाथा। निग्गहट्ठाण-न०(निग्रहस्थान) वादकाले वादी प्रतिवादी येन निग्रह्यते तन्निग्रहस्थानम्। सूत्र०१ श्रु०१२ अगवादिवञ्चनार्थक प्रतिज्ञाहान्यादौ, स्था०१ ठा०। विप्रतिपत्तिः, अप्रतिपत्तिश्च निग्रहस्थानम्। तत्र विप्रतिपत्तिः साधनाभासे साधनबुद्धिर्दूषणाभासे च दूषणबुद्धिरिति / अप्रतिपत्तिः साधनस्यादूषणं, दूषणस्य चानुद्धरणम् / तच्च-निग्रहस्थानं द्वाविंशतिविधम् / तद्यथा-प्रति-ज्ञाहानिः 1, प्रतिज्ञाऽन्तरम् 2, प्रतिज्ञाविरोधः 3, प्रतिज्ञासन्यासः 4, हेत्वन्तरम् 5, अर्थान्तरम् 6, निरर्थकम् 7, अविज्ञातार्थकम् 8, अपार्थकम् 6, अप्राप्तकालम् 10, न्यूनम् 11, अधिकम् 12, पुनरुक्तम् 13, अननुभाषणम् 14, अज्ञानम् 15 अप्रतिभा 16, विक्षेपः 17, मतानुज्ञा 18, पर्यनुयोज्योपेक्षणम् 16, निरनुयोज्यानुयोगः 20, अपसिद्धान्तः 21, हेत्वाभासाश्च 22 // तत्र १-हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपग-च्छतः प्रतिज्ञाहानि म निग्रहस्थानम् / यथा-- अनित्यः शब्द ऐन्द्रियकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् परेण सामान्यमैन्द्रियकत्वमपि नित्यं दृष्टमिति हेतावनैकान्तिकीकृते यद्येवं ब्रूयात्-सामान्यवघटोऽपि नित्यो भवत्विति। स एवं ब्रुवाणः शब्दानित्यत्वप्रतिज्ञा जह्यात् १४२प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति / अनित्यः शब्द ऐन्द्रियकत्वादिल्युक्ते तथैव सामान्येन व्यभिचारे चोदिते यदि ब्रूयाद्युक्तं सामान्यमैन्द्रियक नित्यम्, तद्धि सर्वगतम्, असर्वगतस्तु शब्द इति / तदिदं शब्दे अनित्यत्वलक्षणपूर्वप्रतिज्ञातः प्रतिज्ञाऽन्तरमसर्वगतः शब्द इति निग्रहस्थानम्। अनया दिशा शेषाण्यपि विंशतिज्ञेयानि 2 / स्या०। (३-प्रतिज्ञाविरोधविवेचनम्- 'पइण्णाविरोह' शब्दे) / (४–प्रतिज्ञासंन्यासविवरणम्- 'पइण्णासंण्णास' शब्दे पञ्चमभागे दर्श-यिष्यते)। (५-हेत्वन्तरव्याख्या- 'हेउअंतर' शब्दे द्रष्टय्या)। ६-"प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम्" / गौ०सू०। यथोक्त-लक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृलायां श्रूयात्-नित्यः शब्दोऽस्पर्शत्वादिति हेतुः / हेतु म हिनोतेर्धातोस्तुनि प्रत्यये कृदन्तपदं, पदं च नामाऽऽख्यातोपसर्गनिपाताः। अभिधेयस्य क्रियाऽन्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम, क्रियाकारकसमुदायः कारकसंख्याविशिष्टक्रियाकालयोगाभिधाय्याख्याते, धात्वर्थमात्र चकालाभिधानविशिष्टं, योगेष्वर्थादभिद्यमानरूपा निपाताः, उपसृज्यमानाः क्रियावद् द्योतका उपसर्गा इत्येवमादि, तदर्थान्तरं वेदितव्यमिति / भा०। (अस्य 'अत्यंतर शब्देऽपि, प्रथमभागे 507 पृष्ठे किञ्चिद्वक्तव्यमस्ति)(७-निरर्थकविवेचनम्'निरन्थय शब्देऽग्रे 2775 पृष्ठे वक्ष्यते) ५-"परिषत्प्रतिवादिभ्या त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् / " गौ०सू०। यद्वाक्यं परिषदा, प्रतिवादिना च त्रिरभिहितमपि न विज्ञायते श्लिष्टशब्दमप्रतीतप्रयोगमतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातमविज्ञातार्थमसाम र्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानम्। भा०। (सूत्रस्याऽस्य वृत्तिर्ग्रन्थतोऽवसेया)। (E-"पौर्वापर्यायोगादप्रतिसंबद्धार्थमपार्थकम् 10 / " गौ०सूला यत्रानेकस्य पदस्य, वाक्यस्य वा पौर्वापर्येणान्वययोगो नास्तीत्यसम्बद्धार्थकत्वं गृह्यते, तत्समुदायोऽर्थस्यापायादपार्थकम् / यथा-दश दाडिमानि, षडपूषाः, कुण्डमजाजिनंपललपिण्डः, अथरौरुकमेतत् कुमार्याः पाय्यं, तस्याः पिता अप्रतिशीन इति / भा०। (ग्रन्थादेव वृत्तिर्विलोक्या)

Loading...

Page Navigation
1 ... 1449 1450 1451 1452 1453 1454 1455 1456