Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1362
________________ धम्म 2684 - अभिधानराजेन्द्रः - भाग 4 धम्म धर्म इति स्मृतः / / 1 / / मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत। उत्कृष्ट प्रधानम्, न हिंसा अहिंसा, प्राणातिपातविरतिरित्यर्थः / संयम आश्रवद्वारोपरमः, तापयन्त्यनेकभवोपात्तमष्टप्रकारं कर्म इति तपः, अनशनाऽऽदि / दीव्यन्तीति देवाः, क्रीडन्तीत्यादिभावार्थः / अपिः संभावने, देवा अपि, मनुष्यास्तु सुतराम् / तमित्येवं विशिष्ट जीवं नमस्यन्तीति प्रकटार्थम्। यस्य जीवस्य किम्? धर्मेप्रागभिहितस्वरूपे, सदा सर्वकालं मन इत्यन्तःकरणम् / अयं पदार्थ इति / पदविग्रहस्तु परस्परापेक्षसमासभाक्त्वेनेह निबन्धनाभावान्न प्रदर्शित इति चालनाप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टाद्वक्ष्यामः। (20) प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शयन्नाहकत्थइ पुच्छइ सीसो, कहिँ वि अपुट्ठा कहंति आयरिआ। सीसाणं तु हियट्ठा, विपुलतरागंतु पुच्छाए // 38 // क्वचित् किञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदितीयमेव चालना, गुरुकथनं प्रत्यवस्थानम, इत्थमनयोः प्रवृत्तिः / तथा क्वचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किश्चित्कथयन्त्याचार्याः तत् प्रत्यवस्थानमिति गम्यते / किमर्थ कथयन्त्यत आह-शिष्याणामेव हितार्थ, तुशब्द एवकारार्थः, तथा विपुलतरं तु प्रभूततरं तु कथवन्ति / (पुच्छाए त्ति) शिष्यप्रश्ने सति पटुप्रज्ञोऽयमित्यवगमादिति गाथार्थः / "एवं तावत्समासेन, व्याख्या लक्षणयोजना / कृतेयं प्रस्तुते सूत्रे, कार्यवभपरेष्वपि / / 1 / / '' ग्रन्थविस्तरदोषान्न वक्ष्यामः, उपयोगे तु वक्ष्यामः प्रति सूत्रं, यतः सूत्रस्पर्शकोऽधुना प्रोच्यते / अनुगमनियुक्तिविभागश्च विशेषतः सामायिकबृहद्भाष्याज्ज्ञेयः तत्रोदितं यतः"होइ कयत्थो वोत्तु, सपयच्छेअं सुअंसुआणुगमे। सुत्तालावगनासो, णामादिण्णारविणियोगं |1|| सुत्तप्फासियणिज्जु-त्तिणिओगा सेसओ पयत्थाइ। पायं सो चिय णेगम-णयाइमयगोथरो होइ॥२॥ एवं सुत्ताणुगमो, सुतालावगकओ अनिक्खेवो। सुत्तप्फासियणिज्जु-त्तिणया अ वच्चंति समगं तु / / 3 / " इत्यलं प्रसङ्गेन गमनिकामात्रमेतत्। दश० 110 धर्मो मङ्गलमुत्कृष्टमित्यादौ धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयुक्तं, तस्याऽहिंसासंयमतपोरूपत्वाव्यभिचारित्वादिति। उच्यते, नाहिंसाऽऽदीनां धर्मकारणत्वाद्धर्मस्य च कार्यत्वात्कार्यकारणयोश्व कश्चिद् भेदात, कथञ्चिदभेदश्चेति, तस्य द्रव्यपर्यायोभयरूपत्वात्। उक्तं च- "गस्थि पुढवीविसिट्ठो, घडो त्ति जं तेण जुच्चइ अणणः / जं पुण घडु त्ति पुव्वं, नासी पुढवी इतो अन्नो।।१।।" इत्यादि। गम्यादिधर्मव्यवच्छेदेन तत्स्वरूपज्ञापनार्थं वा, अहिंसाऽऽदिग्रहणमदुष्टमित्यलंविस्तरेण। आहेअहिंसासंयमतपोरूपो धर्मो मङ्गलमुत्कृष्टमित्येतद्वचः किमाज्ञासिद्धम, आहोस्विद्युक्तिसिद्धमपि? अत्रोच्यते-उभयसिद्धम्, कुतः? जिनवचनत्वात्, तस्य च विनेयसत्त्वापेक्षयाज्ञाऽऽदिसिद्धत्वात्। आह च नियुक्तिकारःजिणवयणं सिद्धं चे-व भण्णई कत्थई उदाहरणं / आसज्जउ सोयारं, हेऊ वि कहिं वि भण्णेज्जा / / 6 / / जिनाः प्राग्निरूपितस्वरूपाः, तेषां वचनं तदाज्ञया सिद्धमेव सत्यमेव प्रतिष्ठितमेव, अविचार्य मे वेत्यर्थः, कुतः जिनानां रागादिरहित-- त्वाद्रायाऽऽदिमतश्च सत्यवचनासंभवात् / उक्तं च- 'रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम्। यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् / / 1 / / " इत्यादि / तथापि तथाविधश्रोत्रपेक्षया तत्रापि भण्यते कृचिदुदाहारणं, तथाऽऽश्रित्य तु श्रोतारं हेतुरपि क्वचिद्भण्यते, न तु नियोगतः, तुशब्दः श्रोतृविशेषणार्थः / किंविशिष्ट श्रोतारम् ? पटुधियं, मध्यमधियं च, न तुमन्दधियमिति। तथाहि-पटुधियों हेतुमात्रोपन्यासादेव प्रभूतार्थावगतिर्भवति, मध्यमधीस्तु तेनैव बोध्यते,न त्वितर इत्यर्थः / तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनभुदाहरणमुच्यते दृष्टान्त इत्यर्थः / साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः। इह च हेतुडुल्लडध्य प्रथममुदाहरणाभिधानं, न्यायानुगतत्वात्तबलेनैव हेतोः साध्यार्थसाधकत्वोपपत्तेः / क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थ वा। यथा गतिपरिणामपरिणताना जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायश्चक्षुष्मतो ज्ञानस्य दीपवत्। उक्तं च"जीवानां पुद्गलानां च, गत्युपष्टम्भकारणम् / धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा // 1 // " तथा क्वचिद्धतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्वो, विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः / / 46 / / तथाकत्थइ पंचावयवं, दसहा वा सव्वहान पडिसिद्ध / न य पुण सव्वं भण्णइ, हंदी सविआरमक्खायं / / 50|| श्रोतारमेवाङ्गीकृत्य क्वचित्पञ्चावयवं,दशधा वेति क्वचिद्दशावयव, सर्वथा गुरुश्रोत्रपेक्षया, न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः / यद्यपि चन प्रतिषिद्ध तथाप्यविशेषेणैव, न च पुनः सर्व भण्यते, उदाहरणाऽऽदि। किमित्यत आह-(हंदी सवियारमक्खायं ति) हन्दीत्युप्रदर्शने, किमुपदर्शयति-यस्मादिहान्यत्र च शास्त्रान्तरे सविचारं सप्रतिपक्षमाख्यातं, साकल्यत उदाहरणाऽऽद्यभिधानमिति गम्यते। पञ्चावयवाश्व प्रतिज्ञाऽऽदयः / यथोक्तम्- "प्रतिज्ञाहेतूदाहरणोपनयनिगमनाः / अवयवा दश पुनः प्रतिज्ञाविभत्तयादयः। वक्ष्यति च-"ते उपइण्णविहत्ती' इत्यादि। प्रयोगांश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्यामीतिगाथार्थः / दश० 10 // 'धम्मो मंगलं'' इत्यादिलक्षणमधिकृत्य निर्दिश्यते-अहिंसासंयमतपोरूपो धर्मो मङ्गलभुत्कृष्टमिति प्रतिज्ञा, इह च धर्म इति धर्मानिर्देशः, अहिंसा संयमतपोरूप इति धर्मविशेषणमुत्कृष्ट मङ्गलमिति साध्यो धर्मः धर्मिधर्मसमुदायः प्रतिज्ञा, इयं च श्लोकार्द्धनोक्तेति / देवाऽऽदिदेवपूजितत्वादिति हेतुः, आदिशब्दात्सिद्धविद्याधरनरपतिपरिग्रहः। अयं च श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अर्हदादिवदिति दृष्टान्तः / अत्रापि चाऽऽदिशब्दाद्गणधराऽऽदिपरिग्रहः / अयं च श्लोकचरमपादेनोक्तो वेदितव्य इति। नच भावमनोऽधिकृत्यार्हद्-दृष्टान्ते अस्ति कश्चिद्विरोध इति। इह यो यो देवाऽऽदिपूजितः स स उत्कृष्ट मङ्गलं यथाऽर्हदादयस्तथा च देवाऽऽदिपूजितो धर्म इत्युपनयः तस्माद्देवाऽऽदिपूजितत्वादुत्कृष्ट मङ्गलमिति निगमनम्। इदं चावयवद्वयं सूत्रोक्तावयवत्रयाविनाभूतमिति कृत्वा तेन सूचितमवगन्तव्यमित्यत्रं विस्तरेण।

Loading...

Page Navigation
1 ... 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456