________________ धम्म 2684 - अभिधानराजेन्द्रः - भाग 4 धम्म धर्म इति स्मृतः / / 1 / / मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत। उत्कृष्ट प्रधानम्, न हिंसा अहिंसा, प्राणातिपातविरतिरित्यर्थः / संयम आश्रवद्वारोपरमः, तापयन्त्यनेकभवोपात्तमष्टप्रकारं कर्म इति तपः, अनशनाऽऽदि / दीव्यन्तीति देवाः, क्रीडन्तीत्यादिभावार्थः / अपिः संभावने, देवा अपि, मनुष्यास्तु सुतराम् / तमित्येवं विशिष्ट जीवं नमस्यन्तीति प्रकटार्थम्। यस्य जीवस्य किम्? धर्मेप्रागभिहितस्वरूपे, सदा सर्वकालं मन इत्यन्तःकरणम् / अयं पदार्थ इति / पदविग्रहस्तु परस्परापेक्षसमासभाक्त्वेनेह निबन्धनाभावान्न प्रदर्शित इति चालनाप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टाद्वक्ष्यामः। (20) प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शयन्नाहकत्थइ पुच्छइ सीसो, कहिँ वि अपुट्ठा कहंति आयरिआ। सीसाणं तु हियट्ठा, विपुलतरागंतु पुच्छाए // 38 // क्वचित् किञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदितीयमेव चालना, गुरुकथनं प्रत्यवस्थानम, इत्थमनयोः प्रवृत्तिः / तथा क्वचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किश्चित्कथयन्त्याचार्याः तत् प्रत्यवस्थानमिति गम्यते / किमर्थ कथयन्त्यत आह-शिष्याणामेव हितार्थ, तुशब्द एवकारार्थः, तथा विपुलतरं तु प्रभूततरं तु कथवन्ति / (पुच्छाए त्ति) शिष्यप्रश्ने सति पटुप्रज्ञोऽयमित्यवगमादिति गाथार्थः / "एवं तावत्समासेन, व्याख्या लक्षणयोजना / कृतेयं प्रस्तुते सूत्रे, कार्यवभपरेष्वपि / / 1 / / '' ग्रन्थविस्तरदोषान्न वक्ष्यामः, उपयोगे तु वक्ष्यामः प्रति सूत्रं, यतः सूत्रस्पर्शकोऽधुना प्रोच्यते / अनुगमनियुक्तिविभागश्च विशेषतः सामायिकबृहद्भाष्याज्ज्ञेयः तत्रोदितं यतः"होइ कयत्थो वोत्तु, सपयच्छेअं सुअंसुआणुगमे। सुत्तालावगनासो, णामादिण्णारविणियोगं |1|| सुत्तप्फासियणिज्जु-त्तिणिओगा सेसओ पयत्थाइ। पायं सो चिय णेगम-णयाइमयगोथरो होइ॥२॥ एवं सुत्ताणुगमो, सुतालावगकओ अनिक्खेवो। सुत्तप्फासियणिज्जु-त्तिणया अ वच्चंति समगं तु / / 3 / " इत्यलं प्रसङ्गेन गमनिकामात्रमेतत्। दश० 110 धर्मो मङ्गलमुत्कृष्टमित्यादौ धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयुक्तं, तस्याऽहिंसासंयमतपोरूपत्वाव्यभिचारित्वादिति। उच्यते, नाहिंसाऽऽदीनां धर्मकारणत्वाद्धर्मस्य च कार्यत्वात्कार्यकारणयोश्व कश्चिद् भेदात, कथञ्चिदभेदश्चेति, तस्य द्रव्यपर्यायोभयरूपत्वात्। उक्तं च- "गस्थि पुढवीविसिट्ठो, घडो त्ति जं तेण जुच्चइ अणणः / जं पुण घडु त्ति पुव्वं, नासी पुढवी इतो अन्नो।।१।।" इत्यादि। गम्यादिधर्मव्यवच्छेदेन तत्स्वरूपज्ञापनार्थं वा, अहिंसाऽऽदिग्रहणमदुष्टमित्यलंविस्तरेण। आहेअहिंसासंयमतपोरूपो धर्मो मङ्गलमुत्कृष्टमित्येतद्वचः किमाज्ञासिद्धम, आहोस्विद्युक्तिसिद्धमपि? अत्रोच्यते-उभयसिद्धम्, कुतः? जिनवचनत्वात्, तस्य च विनेयसत्त्वापेक्षयाज्ञाऽऽदिसिद्धत्वात्। आह च नियुक्तिकारःजिणवयणं सिद्धं चे-व भण्णई कत्थई उदाहरणं / आसज्जउ सोयारं, हेऊ वि कहिं वि भण्णेज्जा / / 6 / / जिनाः प्राग्निरूपितस्वरूपाः, तेषां वचनं तदाज्ञया सिद्धमेव सत्यमेव प्रतिष्ठितमेव, अविचार्य मे वेत्यर्थः, कुतः जिनानां रागादिरहित-- त्वाद्रायाऽऽदिमतश्च सत्यवचनासंभवात् / उक्तं च- 'रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम्। यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् / / 1 / / " इत्यादि / तथापि तथाविधश्रोत्रपेक्षया तत्रापि भण्यते कृचिदुदाहारणं, तथाऽऽश्रित्य तु श्रोतारं हेतुरपि क्वचिद्भण्यते, न तु नियोगतः, तुशब्दः श्रोतृविशेषणार्थः / किंविशिष्ट श्रोतारम् ? पटुधियं, मध्यमधियं च, न तुमन्दधियमिति। तथाहि-पटुधियों हेतुमात्रोपन्यासादेव प्रभूतार्थावगतिर्भवति, मध्यमधीस्तु तेनैव बोध्यते,न त्वितर इत्यर्थः / तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनभुदाहरणमुच्यते दृष्टान्त इत्यर्थः / साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः। इह च हेतुडुल्लडध्य प्रथममुदाहरणाभिधानं, न्यायानुगतत्वात्तबलेनैव हेतोः साध्यार्थसाधकत्वोपपत्तेः / क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थ वा। यथा गतिपरिणामपरिणताना जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायश्चक्षुष्मतो ज्ञानस्य दीपवत्। उक्तं च"जीवानां पुद्गलानां च, गत्युपष्टम्भकारणम् / धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा // 1 // " तथा क्वचिद्धतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्वो, विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः / / 46 / / तथाकत्थइ पंचावयवं, दसहा वा सव्वहान पडिसिद्ध / न य पुण सव्वं भण्णइ, हंदी सविआरमक्खायं / / 50|| श्रोतारमेवाङ्गीकृत्य क्वचित्पञ्चावयवं,दशधा वेति क्वचिद्दशावयव, सर्वथा गुरुश्रोत्रपेक्षया, न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः / यद्यपि चन प्रतिषिद्ध तथाप्यविशेषेणैव, न च पुनः सर्व भण्यते, उदाहरणाऽऽदि। किमित्यत आह-(हंदी सवियारमक्खायं ति) हन्दीत्युप्रदर्शने, किमुपदर्शयति-यस्मादिहान्यत्र च शास्त्रान्तरे सविचारं सप्रतिपक्षमाख्यातं, साकल्यत उदाहरणाऽऽद्यभिधानमिति गम्यते। पञ्चावयवाश्व प्रतिज्ञाऽऽदयः / यथोक्तम्- "प्रतिज्ञाहेतूदाहरणोपनयनिगमनाः / अवयवा दश पुनः प्रतिज्ञाविभत्तयादयः। वक्ष्यति च-"ते उपइण्णविहत्ती' इत्यादि। प्रयोगांश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्यामीतिगाथार्थः / दश० 10 // 'धम्मो मंगलं'' इत्यादिलक्षणमधिकृत्य निर्दिश्यते-अहिंसासंयमतपोरूपो धर्मो मङ्गलभुत्कृष्टमिति प्रतिज्ञा, इह च धर्म इति धर्मानिर्देशः, अहिंसा संयमतपोरूप इति धर्मविशेषणमुत्कृष्ट मङ्गलमिति साध्यो धर्मः धर्मिधर्मसमुदायः प्रतिज्ञा, इयं च श्लोकार्द्धनोक्तेति / देवाऽऽदिदेवपूजितत्वादिति हेतुः, आदिशब्दात्सिद्धविद्याधरनरपतिपरिग्रहः। अयं च श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अर्हदादिवदिति दृष्टान्तः / अत्रापि चाऽऽदिशब्दाद्गणधराऽऽदिपरिग्रहः / अयं च श्लोकचरमपादेनोक्तो वेदितव्य इति। नच भावमनोऽधिकृत्यार्हद्-दृष्टान्ते अस्ति कश्चिद्विरोध इति। इह यो यो देवाऽऽदिपूजितः स स उत्कृष्ट मङ्गलं यथाऽर्हदादयस्तथा च देवाऽऽदिपूजितो धर्म इत्युपनयः तस्माद्देवाऽऽदिपूजितत्वादुत्कृष्ट मङ्गलमिति निगमनम्। इदं चावयवद्वयं सूत्रोक्तावयवत्रयाविनाभूतमिति कृत्वा तेन सूचितमवगन्तव्यमित्यत्रं विस्तरेण।