________________ धम्म 2683 - अभिधानराजेन्द्रः - भाग 4 धम्म ग:-अष्टनागाऽऽद्यपेक्षया, लाभोचितपरिवारः चतुर्भागाऽऽदिभर्तव्यपरिमाणेन, लाभोचितनिधिकारः स्यात्, चतुभार्गाऽऽद्यपेक्षयेव / उक्तं चात्र लौकिकैः"पादमायान्निधिं कुर्या-त्पादं वित्ताय वर्द्धयेत्। धर्मोपभोगयोः पाद, पादं भर्त्तव्यपोषणे // 1 // " तथाऽन्यैरप्युक्तम्"आयादड़ नियुञ्जीत, धर्मे यद्वाऽधिकं ततः। शेषेण शेषं कुर्वीतः, यत्नतस्तुच्छमैहिकम् // 1 // " इत्यादि। तया असंतापकः परिजनस्य स्यादिति वर्तते शुभप्रणिधानेन। गुणकरो यशाशक्ति भवस्थितिकथनशीलत्वेन, अनुकम्पापरः प्रतिफलनिरपेक्षतया, निर्ममो भावेन भवस्थित्यालोचनात्। क एवंगुणः स्यादित्याहएवं यस्मात्तत्पालनेऽपि धर्मः, जीवोपकारभावात, तथाऽन्यपालन इति जीवाविशेषेण / किमित्येतदेवमित्याह-सर्वे जीवाः पृथक्पृथग् वर्तन्ते रवलक्षणभेदेन, किं तु ममत्वं बन्धकारणं लोभरूपत्वात् / उक्तं च"संसाराम्बुनिधौ सत्त्वाः, कर्मोर्मिपरिघट्टिताः। संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः ? // 1 / / '' तथा"अत्यायतेऽस्मिन् संसारे, भूयो जन्मनि जन्मनि। सत्त्वो नेवास्त्यसौ कश्चिद्, यो न बन्धुरनेकधा / / 2 / / " इत्यादि। सर्वथा परिभावनामात्रमेतत्स्वजनो न स्वजन इति / (तहा तेसु तेसु इत्यादि) तथा तेषु तेषु समाचारेषु गृहिसमुचितेष्विति वर्तते, स्मृतिसमत्वाऽऽगतः स्यात् आभोगयुक्तः। कथमित्याह-अमुकोऽहं देवदत्ताऽऽदिनामा अमुककुले इक्ष्वाक्काऽऽद्यपेक्षया, अमुकशिष्यो धर्मतः तत्तदाचायापेक्षया, अमुकधर्मस्थानस्थितः अणुव्रताऽऽद्यपेक्षया, न मम तद्विराधना साम्प्रतम, न मम तदारम्भो विराधनाऽऽरम्भः। तथा वृद्धिर्ममैतस्य / धर्मस्थानस्य, एतदत्र सारं धर्मस्थानगेतदात्मभूतमानुगामुकत्वेन, एतद्धितं सुन्दरपरिणामत्वेन, असारमन्यत्सर्वमर्थजाताऽऽदीति, विशेषतोऽविधिग्रहणेन विपाकदारुणत्वात् / यथोक्तम्''पापेनैवार्थरागान्धः, फलमाप्नोति यत् क्वचित्। वडिशामिषवत्तत्तु, विना नाशं न जीर्यति॥१॥" इति। एतदेवमेवेत्याह- एवमाह त्रिलोकबन्धुः, समुपचितपुण्यसंभार: परमकारुणिकः, तथाभव्यत्वनियोगात् / सम्यक्संबुद्धोऽनुत्तरबोधिवीजतः, भगवान्नर्हन् सत्त्वविशेष इति / एवं रामालोच्य तदविरुद्धेषु अधिकृतधर्मस्थानाविरुद्धेषु समाचारेषु विचित्रेषु सम्यग् वर्तेत सूत्रनीत्या भावमङ्गलमेतद्विधिना वर्तनम्, तन्निष्पत्तेरधिकृतसमाचारनिष्पत्तेरिति / (तहा जागरिजेत्यादि) तथा जागृयात् भावनिद्राविरहेण, धर्मजागरया तत्त्वाऽऽलाचनरूपया, को मम कालः वयोऽवस्थारूप:? किमेतस्योचित धर्माऽऽद्यनुष्ठानम्? असारा विषयाः, तुच्छाः शब्दाऽऽदयो, नियमगामिनो वियोगान्ताः, विरसावसानाः परिणामदारुणाः, तथा भयानकोमृत्युः, महाभयजननः, सर्वाभावकारी तत्साध्यार्थक्रियाभावात् / अविज्ञाताऽऽगमनः, अदृश्यस्वभावत्वात मृत्योः / अनिवारणीयः, स्वजनाऽऽदिबलेन / पुनः पुनरनुबन्धी, अनेकयो निभावेना धर्म एतस्यौषधं, मृत्योर्व्याधिकल्पस्य। किविशिष्ट? इत्याह-एकान्तविशुद्धः निवृत्तिरूपः, महापुरुषसे वितस्तीर्थकराऽऽदिसेवितः सर्वहितकारी मैत्र्यादिरूपतया / निरतिचारो तथागृहीतपरिपालनेन, परमानन्दहेतुः निर्वाणकारणमित्यर्थः। नम एतरमै धर्माय अनन्तरोदितरूपाय, नम एतद्धर्मप्रकाशकेभ्योऽर्हद्भ्यः, नम एतद्धर्मपालकेभ्यो यतिभ्यः, नमस्तद्धर्मप्ररूपकेभ्यो यतिभ्य एव, नम एतद्धर्मप्रतिपत्तृभ्यः श्रावकाऽऽदिभ्यः, इच्छाम्यह-मेतं धर्म प्रतिपत्तुम. अनेनैतत्पक्षपातमाहसम्यग्मनोवाकाययोगैः अनेन तु सम्पूर्णप्रतिपत्तिरूपं प्रणिधिविशेषमाहभवतु ममैतत् कल्याणम्, अधिकृतधर्मप्रतिपत्तिरूपं परमकल्याणानां जिनानामनुभावतः, तदनुग्रहेणेत्यर्थः / सुप्रणिधानमेवं चिन्तयेत् पुनःपुनः। एवं हि स्वाऽऽशयादेव तन्निमित्तोऽनुग्रह इति / तथा एतद्धम्मयुक्तानां यतीनामवपातकारी स्यात, आज्ञाकारीति भावः। प्रधानं मोहच्छेद-- नमेतत् / तदाज्ञाकारित्वं तन्मोहच्छेदनयोगनिष्पत्त्यङ्गतयेति हृदयम्। एवं कुशलाभ्यासेन विशुद्भयमानो विशुद्ध्यमान एतत्सेवक इति प्रक्रमः। भावनयोक्तरूपया कर्मापगमेन हेतुना, उपत्यैतस्य धर्मस्य योग्यताम्। एतदेवाऽऽह -तथा संसारविरक्तस्तदोषभावनया, संविग्नो भवति मोक्षार्थी , अममो ममत्वरहितः, अपरोपतापी परपीडापरिहारी, विशुद्धो गन्थ्यादिभेदेन विशुद्धयमानभावः शुभकण्डकवृद्धयेति पं०सू० 2 सूत्र०। (श्रुतधर्ममधिकृत्य धर्मस्तुतिः 'काउस्ससग्ग' शब्दे तृ०भा० 416 पृष्ठे "तमतिमिर" इत्यादिगाथाभिर्भाविता) (16) साम्प्रत पदार्थ उच्यतेधम्मो मंगलमुक्किडं, अहिंसा संजमो तवो। देवा वि तं नमसति, जस्स धम्मे सया मणो / / 1 / / "धर्मो मङ्गलमुत्कृष्ट-महिंसा संयमस्तपः। देवा ऽपि तं नमस्यन्ति, यस्य धर्मे सदा मनः // 1 // " तत्र 'धु' धारणे. इत्यस्य धातोः मप्रत्ययान्तस्येदं रूपं धर्म इति / मङ्गलरूपं पूर्ववत् / तथा- 'कृष' विलेखने, इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तस्येदं रूपमुत्कृष्टमिति / तथा- 'तृह' 'हिसि' हिंसायाम्, इत्यस्य ''इदितो नुम् धातोः॥७१।५८|| इति नुमि कृते स्त्र्यधिकारे टाबन्तस्य नअपूर्वस्येदं रूपम्, यदुताहिंसेति। तथा- 'यमु' उपरमे, इत्यस्य धातोः संपूर्वस्याच्प्रत्ययान्तस्य संयम इति रूपं भवति। तथा'तप' सन्तापे, इत्यस्य धातोरसुन्प्रत्ययान्तस्य तप इति। तथा- "दिवु' क्रीडाविजिगी-षाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, इत्यस्य धातोरच्प्रत्य-यान्तस्य जसि देवा इति भवति / अपिशब्दो निपातः, तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनंतमिति भवति। तथा नमसित्यस्य प्रातिपदिकस्य 'नमो वरिवश्वित्रडः क्यच् / / 3 / 1 / 16 / / '' इति क्यजन्तस्य लट् क्रियान्तादेशः, ततश्व नमस्यन्तीति भवति। यदिति सर्वनाम्नःषष्ठ्यन्तस्य यस्येति भवति. धर्मः पूर्ववत् / सदेति सर्वस्मिन् काले "सर्वकान्य-किंयत्तदः काले दा'' / / 5 / 3 / 15 / / इतिदाप्रत्ययः, ''सर्वस्य सोऽन्यतरस्यां दि" / / 5 / 3 / 6 / / इतिस आदेशः सदा। तथा- 'मन' ज्ञाने इत्यस्य धातोरसुन् प्रत्ययान्तस्य मन इति भवति / इति पदानि। साम्प्रत पदार्थ उच्यतेतत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः। तथा चोक्तम्- "दुर्गतिप्रसृतान जीवान, यस्माद्धारयते ततः। धत्ते चैतान शुभे स्थाने, तरमा