________________ धम्म 2675 - अभिधानराजेन्द्रः - भाग 4 धम्म ति) स कर्मपरिहा कायवाङ्मनोभिर्न हिनस्ति जन्तून. न घातयत्यपरै प्यनुमन्यते / किञ्च-पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकारं वा संयम करोति संयमयति, आचारक्विवन्तं वैतत्-संयम इवाऽऽचरति संयमयति। किंच-(नोपगभइ) 'गल्भ' धाष्ट्ये , अरायमकर्मसु प्रवृत्तः सन् नप्रगल्भत्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिहेति न धृष्टतामवलम्बते इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिन कुध्यति न जात्यादिमानमुद्वहति, न वश्चानां विधत्ते, न लुभ्यति / किमाकलय्यैतत् कुर्यादित्याह-(उवेहमाणे त्ति) उत्प्रेक्षमाणोऽवगच्छन् प्रत्येक प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नाऽपि परदुःखेन दुःखी, अतः प्राणिनो न हिंस्यात् / इति प्राणिनां प्रत्येक सातमुत्प्रक्षमाणश्च किं कुर्यादित्याह- वर्ण्यते प्रशस्यते येन स वर्णः साधुकारस्तदादेशी वर्णाऽऽदेशी वर्णाभिलाषी सन्नारभते कञ्चन पापाऽ5रम्भ सर्वस्मिन्नपि लोके, यदि वा तपः संयमाऽऽदिकमप्यारम्भ यशः कीत्यर्थ नाऽऽरभते, प्रवचनोद्भावनार्थ त्वारभते। तदुद्भावकाश्चामी"प्रावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च / विद्यासिद्धः ख्यातः, कविरपि चोद्भावकास्त्वष्टौ / / 1 / / " यदि वा वों-रूपं तदादेशी-तदभिलाषुकः, नोर्द्धतनाऽऽदिका: क्रिया आरभेत, किंभूतः रान्नेतत् कुर्यादित्याह- (एगप्पमुहे) एको मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषरहितत्वात्तत्र प्रगत मुख यस्य स तथा, मोक्षे तदुपाये वा दत्तैकदृष्टिर्न कञ्चन पापाऽऽरम्भमारभेत इति / किञ्च-मोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् ता प्रकर्षण तीर्णो विदिक्प्रतीर्णः, स चैवंभूतः सन्नारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः। किञ्च-(निवि-णचारी) चरणं चारः अनुष्ठान, निर्विण्णस्य चारो निर्विण्णचारः, सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत्? यतः प्रजास्वरतः प्रजायन्त इति प्रजाः प्राणिनः तत्रारतः तदारम्भा निवृत्तो निर्ममत्वोवा, यश्च शरीराऽऽदिष्यपि ममत्वरहितः स निर्विण्णचार्येव भवति, यदि वा प्रजाः स्त्रियस्तास्वरत आरम्भेऽपि निर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति। यश्च प्रजास्वरक्त आरम्भरहितः, स किंभूतः स्यादित्याहसे वसुमं सव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिज्ज पावं कम्मं तं णो अण्णेसी, जं सम्मं ति पासहा तं मोणं ति पासहा जं मोणं ति पासहा तं सम्मं ति पासहा, ण इमं सकं सिढिले हिं अदिज्जमाणे हिं, गुणासातेहिं वंक समायारेहिं पमत्ते हिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं च सेवंतिवीरा सम्मत्तदंसिणो, एस ओहंतरे मुणी,तिण्णे मुत्ते विरए वियाहिए त्ति वेमि। 155|| (से वसुम) वसु द्रव्यं, स चात्र संयमः, तद्विद्यते यस्य स निवृत्ताऽऽसम्भो मुनिर्वसुमान् (सव्वसमन्नागय ति) सर्वं सम्यगन्वागतं प्रज्ञानं पदार्थाऽऽविर्भावकं यस्याऽऽत्मनस्तेनाऽऽत्मना सर्वसमन्वागतप्रज्ञानरूपाऽऽपन्नेन यदकर्तव्यं पापं कर्म तन्नो कदाचिदप्यन्वेषति, उपलब्धपरमार्थरूपेणाऽऽत्मना न सावद्यानुविधायी स्यादिति भावार्थः। यदेव सम्यग्प्रज्ञानं तदेव पापकर्मवर्जन, यदेव पापकर्मवर्जन तदेव च सम्यग्प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-- सम्यगिति सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितम्, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनसंयमानुष्ठान-मित्येतत्पश्यत्, यच्च मौनमित्येतत्पश्यत तत्सम्यग्ज्ञानं नैश्चयिक सम्यक्त्वं वा पश्यत, ज्ञानस्य विरति-फलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्य-वसेयेति भावार्थः / एतच्च न येन केनचिच्छक्यमनुष्ठातुमित्याह-- नैतत्सम्यक्त्वाऽऽदित्रयं सम्यगनुष्ठातुं शक्यं, कैः? शिथिलैः अल्पपरिणामतया मन्दवीर्य : संयमतपसोऽतिद्रढिमरहितैरिति / किश्व(आदिज्जमाणेहिं) आर्दैः पुत्रकलत्राऽऽद्यनुषनजनितस्नेहादाद्रीक्रियमागैरेतत् पूर्वोक्तमशक्यमिति संबन्धः, किश-(गुणासाएहि) गुणाः शब्दाऽऽदयस्तेषु आस्वादो येषां ते गुणाऽऽस्वादास्तैरिति / किञ्च(वंकसमायरेहिं) वक्र:- समाचारो येषां ते तथा, तैर्मायाविभिरित्यर्थः / (पमत्तेहिं) विषयकषायाऽऽदिप्रमादैः प्रमत्तैरिति / (गारमावसंतेहिं) अगारं गृह तदाद्याक्षरलोपागारमित्युक्तं तदागारमावसद्भिः सेवमानैः पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योज्यम् / कथं तर्हि शक्यमित्याह-- (मुणी गोण रामायाए धुणे सरीरगं पंत लूहं च सेवंति वीरा सम्मत्तदसिणो) (मुणी मोण ति) मुनिर्जगत्त्रयस्य मन्ता मौन मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं समादाय गृहीत्वा धुनीयाच्छरीरकमौदारिक कर्मशरीरं वा / कथं च तस्य धुननमित्याह-प्रान्तं पर्युषितं वल्लचणकाद्यल्पं वा तदपि रूक्षं विकृतेरभावात्तत् सेवन्ते तदभ्यवहरन्ति, के ते? वीराः कर्मविदारणसहिष्णवः, किंभूताः? सम्यक्त्वदर्शिनः, समत्यदर्शिनो वा / यश्च प्रान्तरूक्षसेवी सकिंगुणः स्यादित्याह-(एस ओहंतरे मुणी) एषोऽनन्तरोक्तविशेषणविशिष्टः ओघो भावौधः संसारस्तं तरतीति / कोऽसौ? मुनिः "वर्तमानसमीप्ये वर्तमानवद्वा" / / 3 / 3 / 131 // इति तीर्णएवासौ, स बाह्यभ्यन्तरसङ्गाभावान्मुक्तः, कश्चैवंभूतो? यः सावद्यानुष्ठाना-द्विरत इत्येवं व्याख्यातः / इतिरधिकारसमाप्तौ / ब्रवीमिति पूर्ववत। आचा०१ श्रु०५ अ०३ उ०।। इह त्रीणि वयासि-युवा मध्यवया वृद्धश्चेति, तत्र मध्यवयाः परिपक्वबुद्धित्वाद्धार्ह इत्येतद्दर्शयति-- मज्झिमेणं वयसा एगे संबुज्झमाणा समुट्ठिता सोचा मेधावी वयणं पंडियाणं णिसामित्ता समयाए धम्मे आयरिएहिं पवेदिते ते अणवकं खमाणा अणतिवाएमाणा अपरिग्गहमाणा णो परिग्गहावंति सव्वावंति च णं लोगंसि णिहाय दंडं पाणे हिं अकुव्वमाणे एस महं अगथे वियाहिए। युवा मध्यवया वृद्धश्चेति / तत्र मध्यमवयाः परिपक्वबुद्धित्वाद्धार्ह इत्यतो दर्शयति- मध्यमेन वयसाऽयेके संबुद्धयमाना धर्मचरणाय सम्यगुस्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्यायोग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहलइति निष्प्रत्यूहधर्मा - धिकारीति मध्यमवयोग्रहणम् / कथं संबुद्धमानाः समुत्थिता इत्याह(सोच्चा इत्यादि) इह विविधाः संबुद्ध्यमानका भवन्ति / तद्यथास्वयंबुद्धाः, प्रत्येकबुद्धाः, बुद्धबोधिताश्च / तत्र बुद्धबोधितेनेहाधिकार इति दर्शयति-मेधावी मर्यादाव्यवस्थितः पण्डिताना तीर्थकृदादीना वचन हिताहितप्राप्तिपरिहारप्रवर्तकं श्रुत्वाऽऽकर्ण्य पूर्वं पश्चान्निशम्याऽऽ