________________ धम्म 2676 - अभिधानराजेन्द्रः - भाग 4 धम्म वधार्य समतामालम्बेत / किमिति? यतः समतया माध्यस्थ्येनार्थस्तीर्थकृद्धिधर्मः श्रुतचारित्राऽऽख्यः प्रवेदित आदी प्रकर्षण वा कथित इति। तेच मध्यमे वयसि श्रुत्वा धर्मसंबुद्ध्यमानाः समुत्थिताः सन्तः किं कुर्युरित्याह- (ते अभिकखमाणा इत्यादि) ते निष्क्रान्ता मोक्षमभिप्रस्थिताः कामभोगानभिकाङ्क्षन्तस्तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्त आद्यन्तयोहणे मध्योपादानमपि द्रष्टव्यम्। तथा मृषावादमवदन्त इत्याद्यपि वाच्यमेवंभूताश्च देहेऽप्यममत्वाः (सज्वावति त्ति) सर्वस्मिन्नपि लोके, चः समुच्चये, स च भिन्नक्रमः णमितिवाक्यालङ्कारे। नोपरिग्रहवन्तश्च भवन्तीति यावत्। किञ्च-(णिहाय इत्यादि) प्राणिनो दण्डयतीति दण्डः परितापकारी तं दण्ड प्राणिषु प्राणिभ्यो वा निधाय क्षिप्त्वा त्यक्त्वा पापं पापोपादानं कर्माष्टादशभेदभिन्नं तदकुर्वा - णोऽनाचरन्नेष महान्न विद्यते ग्रन्थः स बाह्याभ्यन्तरोऽस्येत्यग्रन्थः व्याख्यातस्तीर्थकरगणधराऽऽदिभिः प्रतिपादित इति / आचा०१ श्रु० 8 अ०३उ०। इह हि दुरन्तानन्त चतुरन्तासारविसारिसंसारापारपारावारे निमज्जता भव्यजन्तुना जिनप्रवचनप्रतीतचोलकाऽऽदिदशनिदर्शनदुष्प्रायां कथमपि प्रशस्तसमस्तमनुजजन्माऽऽदिसामग्रीमवाप्य भवजलधिसमुत्तरण-प्रवणप्रवहणस्वधर्मसद्धर्मविधाने प्रयत्नो विधेयः / यदवादि- ''भवकोटीदुष्प्रापामवाप्य नृभवाऽऽदिसकलसामग्रीम् / भवज-लधियानपात्रे, धर्मे यत्नः सदा कार्यः !!1 / / " सङ्घा०१ अधिक 1 प्रस्ताव० / कामार्थयोस्तु बाधायां धर्मो रक्षणीयः, धर्ममूलत्वादर्थकामयोः / उक्तं च-'धर्मश्चेन्नावसीदेत, कपालेनापि जीवतः। आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः / / 1 / / " (13) ध०१ अधिक। (धर्मविषये तेतलिपुत्रकथा 'तेतलिसुय' शब्दे 2352 पृष्ठे गता) "जाव नदुक्ख पत्ता, माणभंसं च पाणिणो पायं। ताव नधम्म गेहति भावाओ तेयलिसुसंव्व'' ||1|| ज्ञा०१ श्रु०१४ अ०1"नेह लोके सुखं किञ्चिच्छादितस्यांहसा भृशम् / मितं च जीवितं नृणां, तेन धर्मे मतिं कुरु" ||1|| आ०म०१२ खण्ड। प्रक्रान्तमेव समर्थयन्नाहजरा जाव न पीडेइ, वाही जाव न वड्डइ। जाविंदिया न हायंति, ताव धम्म समायरे // 36|| जरा वयोहानिलक्षणा यावन्न पीडयति, व्याधिः क्रियासामर्थ्यशत्रुर्यावन्न वर्द्धते। यावदिन्द्रियाणि क्रियासामोपकारीणि श्रोत्रादीनि नहीयन्ते तावदत्रान्तरे प्रस्ताव इति कृत्वा धर्मसमाचरेत् चारित्रधर्ममिति सूत्रार्थः॥३६॥ दश०८ अ० पापाद्विरम्य धर्ममेवाऽऽश्रयेत् तथा चवेराणुगिद्धे णिचयं करेति, इओ चुए सुदुहमट्ठदुग्गं / तम्हा उमेधावि समिक्ख धम्म, चरे मुणी सव्वओ विप्पमुक्के ||6il येन केन कर्मणा परोपतापरूपेण वैरमनुबध्यते जन्मान्तरशतानु-यायि भवति, तत्र गृद्धो वैरानुगृद्धः। पाठान्तरं या "आरम्मसत्तो त्ति' आरम्भे सावद्यानुष्ठानरूपे सक्तो लग्नो निरनुकम्पो निचयं द्रव्योपचय तन्निमित्ताऽऽपादितकर्मनिचयं स्थानात् च्युतो जन्मान्तरं गतः सन् वा करोत्युपादत्ते, स एवंभूत उपात्तवैरः कृतकर्मोपचय इत्यतोऽस्मात्स्थानाछच्युतो जन्मान्तरं गतः सन् दुःखयतीति दुःखं नरकाऽऽदिक यातनास्थानमर्थतः परमार्थतो दुर्ग विषमं दुरुत्तरमुपैति। यत एवं तत्तस्मान्मेधावी विवेकी मर्यादावान् वा संपूर्णसमाधिगुणं जानानो धर्म श्रुतचारित्राऽऽख्य समीक्ष्याऽऽलोच्याऽङ्गीकृत्य मुनिः साधुः सर्वतः सबाह्याभ्यन्तरात्सङ्गाद्विप्रमुक्तोऽपगतः संयमानुष्ठानं मुक्तिगमनैकहेतुभूत चरेदनुतिष्ठेत स्त्यारम्भाऽऽदिसङ्गाद्विप्रमुक्तो निश्रितभावेन विहरेदिति यावत् / / 6 / / सूत्र०१ श्रु०१० अ०। (16) तथाचदियहाई दो व तिन्नि च, अद्धाणं होइ जंतु लग्गेण / सव्वायरेण तस्स वि, संवलयं लेइ पविसंतो।। जो पुण दीहपवासो, चुलसीइजोणिलक्खनियमेणं / तस्स तवसीलमइयं, संवलयं न चिंतेह / / जहजह पहरे दियहे, माससंवस्सरे ति वोलिंति। तह तह गोयम ! जाणसु, दुक्के आसन्नमरणं च / जस्स न नजइ कालं, न य वेला नेव दियहपरिमाणं / नाए वि णत्थि कोइ वि, जगम्मि अजरामरो एत्थ।। पावो पमायवसओ, जीवो संसारकञ्जमुज्जुत्तो। दुक्खेहिं न निव्विन्नो, मुक्खेहिं न गोयमा ! तिप्पे / / जीवेण जाणिउं वि, सज्जयाणि जो इसएसु देहाणि / थेवेहिँ तओ सयलं, पि तिहुयणं होज पडिहत्थं / / नहदंतमुद्धभमुह-क्खिकेसजीवेण विप्पमुक्केसु / तह वि हविज कुलसे-लमेरुगिरिसन्निभे कूडे / / हिमवंतमलयमंदर-दीवोदहिधरणिसरिसरासीओ। अहियारो आहारो, जीवेणाहारिओ अणंतहुतो॥ गुरुदुक्खभरक्कंत-स्स अंसुनिवारण जं जलं गलियं / तं अगडतलायणई-समुद्दमाईसु ण वि होज्जा / / आवीयं घणछीरं, सागरसलिलाउ बहुयरं होगा। संसारम्मि अणंते, अविलाजोणीए एक्काए।। सत्ताहविवन्नसुकुहिय-साणं जोणीए देसम्मि। किमियत्तणकेवलए-ण जाणि मुक्काणि देहाणि / / तेसिं सत्तमपुढवी-एसिद्धिखेत्तं च पावओ कुरुडं। चोद्दसरज्जु लोग, अणंतभागेण विभरेज्जा।। एते य कामभोगे, कालमणंतं इहं सओवभोगे य। अप्पुवं वि य मन्नइ, जीवो तह वि य विसयसोक्खं / / जह कछुलो तुयमाणो, दुहं मुणेइ सोक्खं / मोहाउरा मणुस्सा, तह कामदुहं सुहं वे ति / / जाणंति अणुहवंति य, अणुजम्मजरामरणसंभवे दुक्खे। नय विसएसु विरज्ज-ति गोयम ! दुग्गइगमाणपस्थिए जीवे / / सव्वगहाणं पभवो, महागहो सव्वदोसपायट्टी। कामग्गहो दुरप्पा, जेणभिभूयं जगं सव्वं / /