Book Title: Abhidhan Chintamani Nammala Tika Author(s): Hemchandracharya, Publisher: ZZZ Unknown View full book textPage 9
________________ १ देवाधिदेवकाण्डः । मघ्राणानि, चत्वारि तान्येव चक्षुःसहितानि, इन्द्रियाणि येषां ते तथा ॥ ततो दीन्द्रियाः कृम्यादयः, त्रीन्द्रियाः पिपीलकादयः, चतुरिन्द्रियाः लूतादय: ॥२१॥ पश्च स्पर्शनादीनि श्रोत्रसहितानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः। ते च त्रिविधाःस्थलचराः, खचराः, अम्बुचराश्च । तत्र स्थलचरा इभाद्याः, खचराः केकिप्रभृतयः, अम्बुचरा मत्स्याद्याः ॥ देवा नरा नारकाश्च पश्चेन्द्रिया एव । न तु तिर्यश्च इव एकद्वित्रिचतुरिन्द्रिया अपि ॥२२॥ पश्चमे काण्डे नारकाः साङ्गाः॥षष्ठे काण्डे साधारणाः सामान्यवाचिनः ॥ अव्ययाश्च अत्रेति षष्ठ एव काण्डे प्रस्तोष्यन्ते प्रेक्रस्वन्ते इति ॥ - त्वन्ताथादी न पूर्वगौ ॥ २३ ॥ 'तुशब्दोऽन्ते यस्यासौ त्वन्तः, अथशब्द आदिर्यस्पासावथादिश्च शब्द: पूर्व न गच्छति । अप्रिमेण संबध्यते, इत्यर्थः ॥ न्यायसिद्धं चैतत् । तुनां पूर्वस्माद्विशेषद्योतनात् । अथशब्देन चार्थान्तरारम्भात्। यथा ‘स्यादनन्तजिदनन्तः सुविधिस्तु पुष्पदन्तः' इति, 'मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः' इति भ्रान्तिस्थानविषये चैतत् इति ॥ २३॥ अर्हन् जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः । ... शंभुः स्वयम्भूभगवान् जगत्प्रभुस्तीर्थङ्करस्तीर्थकरो जिनेश्वरः॥२४॥ . स्याहाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ । - देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥ ... चतुस्त्रिंशतमतिशयान् सुरेन्द्रादिकृतां पूजां वार्हतीत्यर्हन् “सुद्विषार्हः सत्रिशत्रुस्तुत्ये"॥५।२।२६॥ इत्यतृश्प्रत्ययः अरिहननात् रजोहननात् रहस्याभावाचेति वा पृषोदरादित्वात् ॥ १ ॥ जयति रागद्वेषमोहान्' झते जिनः “जीणशीदीबुध्यविमीभ्यः कित्॥ ( उणा-२६१) ॥ इति नः ॥ २॥ संसारस्य प्रयोजनजातस्य वा पारं • 'पर्यन्तं गतः पारगतः ॥ ३ ॥ त्रीन् कालान् वेत्ति त्रिकालवित् ॥ ४ ॥ क्षीणानि अष्टौ ज्ञानावरणीयादीनि कर्माणि अस्य क्षीणाष्टकर्मा ॥ ५॥ परमे पदे तिष्ठतीति परमेष्ठी "परमात्स्थः कित्" ॥ (उणा-९२५)॥ इति इनि प्रत्यये भीरुष्ठानादित्वात् षत्वं सप्तम्या अलुप् च ॥६॥ जगतां अधीष्टे इत्येवंशीलोऽधीश्वरः “स्थेशभासपिसकसो वरः ॥५।२१८१॥ इति वरः ॥७॥ शं शाश्वतसुखं तत्र भवति शम्भुः ॥८॥ “शंसंस्वयंविप्राद् भुवो डुः"॥५।२।८४॥ इति डुः; स्वयमात्मना तथाभव्यत्वादिसामग्रीपरिपाकात् न तु परोपदेशात् भवति स्वयम्भूः॥९॥ भगो जगदैश्वर्यं ज्ञानं वास्त्यस्य भगवान् . १ प्रकाश्यन्ते इत्यपि पाठःPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 620