Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 11
________________ १ देवाधिदेवकाण्डः । नन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः भुज्यादित्वादन ; यद्वा मर्भात्प्रभृत्येव अभीक्ष्णं शक्रेणाभिनन्दनाद् अभिनन्दनः ॥ ४ ॥ शोभना मतिरस्य सुमतिः; यद्वा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः ॥ ५ ॥ निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभाऽस्य पमप्रभः; यद्वा पद्मशयनदोहदो मातुर्देवतया पूरित इति पद्मवर्णश्च भयवानिति वा पद्मप्रभः ॥६॥२६॥ शोभनौ पार्थावस्य सुपार्श्वः; यद्वा गर्भस्थे भगवति जनन्यपि सुपार्श्वभूदिति सुपार्श्वः ॥ ७ ॥ चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्य चन्द्रप्रभः; तथा गर्भस्थे देव्या: चन्द्रपानदोहदोऽभूदिति चन्द्रप्रभः ॥८॥ शाभनो विधिविधानमस्य सुविधिः; यद्वा गर्भस्थे भगवति जनन्यऽप्येवमिति सुविधिः ॥ ९ ॥ सकलसवसन्तापहरणात् शीतलः; तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्तः इति शीतलः ॥ १० ॥ श्रेयांसावंसावस्य श्रेयांसः पृषोदरादित्वात् ; यथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वदेवताधिष्ठितशय्या जनन्याक्रान्तेति श्रेयो जातमिति श्रेयांसः ॥११॥ वसुपूज्यनृपतेरयं वासुपूज्यः; यद्वा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वसवो देवविशेषास्तेषां पूज्यो वा वसुपूज्यः प्रज्ञाद्यणि वासुपूज्यः ॥१२॥ विगतो मलोऽस्य विमलज्ञानादियोगाद्वा विमलः; यद्वा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः ॥ १३ ॥ न विद्यते गुणानामन्तोऽस्य अनन्तः; अनन्तजिदेकदेशो वा अनन्त भीमो भीमसेन इति न्यायात् स चासौ तीर्थकृच्च अनन्ततीर्थकृत् ॥१४॥२७॥ दुर्गतौ प्रपतन्तं सत्त्वसकातं धारयति धर्मः; तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः ॥ १५ ॥ शान्तियोगात् तदात्मकत्वात् तत्कर्तृकत्वाच्चायं शान्तिः; तथा गर्भस्थे पूर्वोत्पन्नाऽशिवशान्तिरभूत् इति शान्तिः ॥१६॥ कु: पृथ्वी तस्यां स्थितवानिति कुन्थुः पृषोदरादित्वात् ; तथा गर्भस्थे भगवति • जननी रत्नानां कुन्थुराशिं दृष्टवतीति कुन्थुः ॥ १७ ॥ “सर्वो नाम महासत्त्वः कुले य उपजायते। ___ तस्याभिवृद्धये वृद्धरसावर उदाहृतः” ॥ १॥ इति वचनादरः; तथा गर्भस्थे भगवति जनन्या खप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः ॥१८॥ परीषहादिमल्लजयाग्निरुक्तान्मल्लिः; तथा गर्भस्थे भगवति मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मल्लिः ॥१९॥ मन्यते जगतस्त्रिकालावस्थामिति मुनिः “मनेरुदेतौ चास्य वा" ॥ (उणा-६१२) ॥ इति इप्रत्यये उपान्त्यस्योत्वं शोभनानि व्रतान्यस्य सुव्रतः मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः; तथा गर्भस्थे जननी मुनिवत् सुव्रता जातेति मुनिसुव्रतः॥२०॥ परीषहोपसर्गादिनामनात् "-नमेस्तु वा"॥ (उणा-६१३)। इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः; यद्वा गर्भस्थे भगयति परचकनृपैः अपि प्रणतिः कृतेति नमिः ॥२१॥धर्मचक्रस्य नेमिवन्नेमिः, नेमीतीन

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 620