Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 17
________________ १ देवाधिदेवकाण्डः। १७ च महाकाली । काश्चनवर्णाया अपि संज्ञा ॥ ५॥ श्यामा वर्णेन श्यामा अच्युतदेवीत्यपि ॥ ६ ॥ शाम्यति पूजया शान्ता ॥ ७ ॥ भीषणभृकुटित्वात् भृकुटिः ॥ ८ ॥ शोभना तारका अस्याः सुतारका सुतारेत्यपि ॥ ९ ॥ ४४ ॥ अविद्यमानः शोकोऽस्या अशोका ॥१०॥ मानवीव मानवी अभिगम्यदर्शनत्वात् ॥ ११ ॥ चण्डा प्रचण्डत्वात् ॥ १२ ॥ लोके विद्यते ज्ञायते विदिता ॥ १३ ॥ अङ्कशमस्त्यस्या अङ्कशा अभ्रादित्वादः ॥ १४ ॥ कमित्यव्ययं के कुत्सितं दृप्यति कन्दर्पा ॥ १५ ॥ निर्वाति भक्तानां दुःखाग्निः अनया निर्वाणी ॥ १६ ॥ बलमस्त्यस्या बला ॥ १७ ॥ मातुलिङ्गादीन्यवश्यं धरति धारिणी ॥ १८॥ धरणोरगेन्द्रस्य प्रिया धरणप्रिया वैरोठ्या ॥१९॥४५॥ नरेभ्यो दत्तमनया नरदत्ता ॥ २० ॥ गां धारयतीति गान्धारी पृषोदरादित्वात् ॥ २१ ॥ लोकानामम्बेव अम्बिका कुष्माण्डीयपि ॥ २२ ॥ पद्मं करेऽस्त्यस्याः पद्मावती । “अनजिरादि-" ॥३॥२१७८॥ इति मतो दीर्घत्वम् ॥ २३ ॥ सिद्धानयते सिद्धायिका ॥ २४ ॥ एवमेताश्चतुर्विशतिरपि जिनानां ऋषभादीनां भकाः क्रमेण जिनशासनस्य अधिष्ठात्र्यो देवताः शासनदेवताः ॥ ४६॥ वृषो गजोज्वः प्लवगः क्रौञ्चोऽब्जं खास्तिकः शशी । मकरः श्रीवत्सः खड़ी महिषः शूकरस्तथा ॥ १७ ॥ श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥ ४८ ॥ वृषादयः चतुर्विंशतिः अर्हतां ऋषभादीनां ध्वजाः चिह्नानि । एते च दक्षिणागविनिवेशिनो लाञ्छनभेदा इति ॥ ४७ ॥ ४ ॥ रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपाझे कनकत्विषोऽन्ये॥४९॥ नेमिमुनी इत्यरिष्टनेमिमुनिसुव्रतौ, अन्ये इति उक्तेभ्योऽन्ये ऋषभादयः षोडश कनकत्विषः सुवर्णवर्णाः ॥ ४९ ॥ उत्सर्पिण्यामतीतायां चतुर्विशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोऽथ महायशाः ॥ ५० ॥ विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च खाम्यथो मुनिसुव्रतः ॥ ५१ ॥ मुमतिः शिवगतिश्चैवास्तागोऽथ निमीश्वरः । १ व इत्यपि पाठः।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 620