Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 546
________________ आवश्यकहारिभद्रीया ४प्रतिक्रमणाध्य ॥७६०॥ RAKASTOCALCOMSEX ___ 'इदमेवेति सामायिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्ग वा गणिपिटकं, निर्ग्रन्थाः-बाह्याभ्यन्तरग्रन्थनिर्गताः साधवः निर्ग्रन्थानामिदं नैर्ग्रन्थ्यं 'प्रावचन मिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम् , इदमेव नैर्ग्रन्थ्य र प्रावचनं किमत आह-सतां हितं सत्यं, सन्तो-मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति, नयदर्शनमपि स्वविषये सत्यं भवत्यत आह-'अणुत्तरंति नास्योत्तरं विद्यत इत्यनुत्तरं, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थम्भूतमन्यदप्येवम्भूतं भविष्यतीत्यत आह-'केवलियं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतं तथाप्यन्यस्याप्यसंभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीत्यत आह-'पडिपुन्नं ति प्रतिपूर्णमपवर्गप्रापकैर्गुणैर्भूतमित्यर्थः, भृतमपि कदाचिदात्मभरितया न तन्नयनशीलं भविव्यतीत्यत आह-'नेयाउयंति नयनशीलं नैयायिक, मोक्षगमकमित्यर्थः, नैयायिकमप्यसंशुद्धं-सकीर्ण नाक्षेपेण नैयायिकं भविष्यति इत्यत आह-संसुद्धं ति सामस्त्येन शुद्धं संशुद्धं, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपि कथञ्चित्तथास्वाभाव्यान्नालंभवति बन्धननिकृन्तनाय (इदमपि तथा) भविष्यतीत्यत आह-सल्लगत्तणं'ति कृन्ततीति कर्त्तनं शल्यानि-मायादीनि तेषां कर्त्तनं, भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थ त्वाह|'सिद्धिमग्गं मुत्तिमग्गं सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धेर्मार्गः सिद्धिमार्गः, मोचनं मुक्ति-अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधकमिति भावना, अनेन च केवलज्ञानादिविकलाः सकर्मकाच मुक्ता इति दुर्नयनिरासमाह, विप्रतिपत्तिनिरा ॥७६०॥

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552