Book Title: Aatmbodh
Author(s): Dhurandharsuri, Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
મૂલમાત્રમ્
सर्वेष्टसम्बन्धसुगन्धपूर्ति, क्रोधं विरोधं त्यजतादभूतिम् ॥४॥
यन्माहात्म्यादुद्धतत्वं विदूरे नम्रीभावः सद्विनीतत्वमिष्टम् । विद्याप्राप्तिः क्लेशसंक्लेशनाशो मानत्यागं तं कुरुध्वं कुरुध्वम् ॥ ५॥
अनेककोटीकनकीयदानं, सुरेन्द्रशंसात्मविलासि शीलम् । तपः सुतप्तं च फलाय नालं, निराकृता चेन्निकृतिर्न चित्तात् ॥ ६ ॥
लोभश्चेद हृदयेऽस्तोभो,
दूषणैरितरैरलम् । नो चेलोभस्य संक्षोभो, भूषणैरितरैरलम् ॥ ७॥
आर्द्रकुमारमुखाः समभूवन्, संयमतो विमुखास्त्वचि सक्ताः । बन्धनमावृणुते च करीन्द्रः, स्पर्शवशत्वमितीह नचेष्टम् ॥ ८॥
क्षणं बुध्यतां जिह्वया यत् कृतं तत्, तया दुष्ट्या दुर्गतो मगुसूरिः । तथा शैलकाचार्यवर्योऽथ मीनस्ततो रक्षणीया स्वजिह्वावशेऽसौ ॥ ९ ॥
૧૪૯

Page Navigation
1 ... 156 157 158 159 160 161 162