Book Title: Aatmbodh
Author(s): Dhurandharsuri, Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 157
________________ ॐ ह्रीं अर्हं नमः श्री आत्मबोध (मूलमात्रम्) , श्रेयः श्रीवरविभ्रमाद्भुतरसं, धीरं गभीरं, परं, देवेन्द्रार्चितपादपद्मयमलं, हृत्कोमलं, निर्मलम् । वाञ्छापूरणकल्पकल्पमकलं विघ्नानलाम्भोधरं, श्रीशङ्खेश्वरपार्श्वनाथमनिशं संस्तौमि सन्मङ्गलम् ॥ १ ॥ , अवाप्य मानुष्यमिदं नु भूयो, दृष्टांतदिग्दुर्लभमेव यूयम् । धृत्वा धृतिं स्वात्महित प्रकामं, रसायनं ही पिबताविरामम् ॥ २ ॥ क्रोधादीनां समन्ताद्विषयविषभृतां चेन्द्रियाणां निरोधो, दानं शीलं तपस्या सुविहितचरिता भावना श्रीजिनाच । सत्सङ्गः साधुसेवा विरतिरतितरां पञ्चकं सद्यमानां, स्वान्ते कान्ते मुमुक्षा यदिह तव तदैतद्विधेयं विधेयम् ॥३॥ दुर्वारदुर्गत्यनलामलाज्यं, निर्बाधसंवर्धितमोहराज्यम् ।

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162