Book Title: Aaptpariksha Author(s): Lalaram Digambar Jain Publisher: Lalaram Digambar Jain View full book textPage 6
________________ 末末末末末末末末末末完实 जैनग्रन्थरत्नाकरे. बुद्धयन्तरेण तद्बुद्धेः करणे चानवस्थितिः । नानादिसन्ततिर्युक्ता कर्म्मसन्तानतो विना ॥ ३१ ॥ अव्यापि च यदि ज्ञानमीश्वरस्य तदा कथम् ! सकृत्सर्वत्र कार्य्याणामुत्पत्तिर्घटते ततः ॥ ३२ ॥ यद्येकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत्किन्न समुद्भवः ॥ ३३ ॥ कारणान्तरवैकल्यात्तथानुत्पत्तिरित्यपि । कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३४ ॥ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः । अन्वयस्यापि सन्देहात्कार्य्यं तद्धेतुकं कथम् ॥ ३९ ॥ एतेनैवेश्वरज्ञानव्यापिनित्यमपाकृतम् । तस्येशवत्सदाकार्य्यक्रमहेतुत्वहानितः ॥ ३६ ॥ अस्वसंविदितं ज्ञानमीश्वरस्य यदीष्यते । तदा सर्वज्ञता न स्यात्स्वज्ञानस्याप्रवेदनात् ॥ ३७ ॥ ज्ञानान्तरेण तद्वित्तौ तस्याप्यन्येन वेदनम् । वेदनेन भवेदेवमनवस्था महीयसी ॥ ३८ ॥ गत्वा सुदूरमप्येवं स्वसंविदितवेदने । इष्यमाणे महेशस्य प्रथमं तादृगस्तु वः ॥ ३९ ॥ तत्स्वार्थव्यवसायात्मज्ञानं भिन्नं महेश्वरात् । कथं तस्येति निर्द्देश्यमाकाशादिवदञ्जसा ॥ ४० ॥ समवायेन तस्यापि तद्भिन्नस्य कुतो गतिः । इहेदमिति विज्ञानादवाध्याद्वयभिचारितम् ॥ ४१ ॥ ॐॐॐॐॐॐॐॐॐॐॐॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16