Book Title: Aaptpariksha Author(s): Lalaram Digambar Jain Publisher: Lalaram Digambar Jain View full book textPage 5
________________ 张本主本本本本本本本本本本本本本本条本条本卖多多本本本本末去 आप्तपरीक्षा. sattakkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkattatx देहान्तरात्स्वदेहस्य विधाने चानवस्थितिः । तथा च प्रकृतं कायं कुर्य्यादीशो न जातुचित् ॥२०॥ स्वयं देहाविधाने तु तेनैव व्यभिचारिता। .. कार्य्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥ २१॥ यथानीशः स्वदेहस्य कर्ता देहान्तरात्मनः । पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥ २२ ॥ तथेशस्यापि पूर्वस्माइहादेहान्तरोद्भवात् ।। नानवस्थेति यो ब्रूयात्तस्यानीशस्त्वमाशितुः ॥ २३ ॥ अनीशः कर्मदेहेनानादिसन्तानवर्तिना । यथैव हि सक`नस्तदक्न कथमीश्वरः ॥ २४ ॥ ततो नेशस्य देहोऽस्ति प्रोक्तदोषानुषङ्गतः । नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥ २५ ॥ येनेच्छामन्तरेणापि तस्य कार्ये प्रवर्तनम् । जिनेन्द्रवद् घटेतेति नोदाहरणसम्भवः ॥ २६ ॥ ज्ञानमीशः स्वं नित्यश्चेदशरीरस्य न क्रमः । कार्याणामक्रमाद्धेतोः कार्याक्रमविरोधतः ॥ २७ ॥ तद्वोधस्य प्रमाणत्वे फलाभावः प्रसज्यते । ततः फलाववोधस्येष्टौ च स्वस्य मतक्षतिः ॥ २८ ॥ फलत्वे तस्य नित्यत्वं न स्यान्मानात्समुद्भवात् । ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥ २९ ॥ अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेर्महेशेनाकरणेऽस्य स्वबुद्धितः ॥ ३० ॥ *PRITRAFFITIFFFFFFFARPF 东东东来东来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来形Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16