Book Title: Aaptpariksha
Author(s): Lalaram Digambar Jain
Publisher: Lalaram Digambar Jain
Catalog link: https://jainqq.org/explore/022476/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ यी श्री वीतरागायनमः जैनग्रन्थरत्नाकरस्थं ॐ चतुर्थ रत्नम् श्रीविद्यानन्दस्वामिना विरचिता आप्तपरीक्षा. - * श्रीयुतलालारामदिगम्बरीयजैनेन संशोधिता सेयम् मुम्बयीस्थ-जैनग्रन्थरत्नाकरकार्यालयस्याधिपतिना कर्णाटकयन्त्रालये मुद्रयित्वा प्रकाशिता. REX प्रथमावृतिः वीरसम्बत् २४३०, ईस्वी सन १९०४. आणकद्वयम्, V - . . SHARMA य RO Page #2 -------------------------------------------------------------------------- ________________ भूमिका. महाशय! यह आप्तपरीक्षास्तोत्र जिन्होंने बनाया वे पहिले वेदमतावलम्बी पात्रकेशरी नामके नैयायिक विद्वान् थे. इनके अनेक शिष्य थे एक दिन किसी नगर में जा रहे थे. जैनमंदिरके बाहर कोई जैनी समन्तभद्रस्वामीविरचित तत्वार्थसूत्रके गन्धहस्तमहाभाष्यका मङ्गलाचरणस्वरूप आप्तमीमांसा. स्तोत्रका ( देवगमास्तोत्रका) पाठकर रहा था. दैवयोगसे उसके दो श्लोक जो कि उनके मतके खंडन करनेवाले थे, सुनकर चौक पड़े और खड़े होकर उस स्तोत्रको फिरसे आद्योपान्त सुना. सुनकर उस जैनीसे बोले कि इस स्तोत्रकी कोई टीका भी है कि नहीं? तब उस जैनीने उसी वक्त मंदिरमेसे भट्टाकलंकदेवविरचित अष्टशती नामकी टीका लाकर दिखाई. पात्रकेशरीने उसी वक्त उसको आद्योपान्त पढकर चित्तमें जैनमतावलम्बी होनेकी इच्छा कर ली. परन्तु उस समय अनुमानके लक्षणमें संदेह रह गया था. उस संदेह सहितही अपने स्थानपर चले गये. रात्रिको भलेप्रकार विचार करकें जिनेन्द्र भगवान्के चरणोंकी शरण होनेका संकल्प कर लिया परन्तु वह सन्देह नहिं गया. तब रात्रिको जिनशासन देवतावोंने स्वप्नमें सूचित किया कि "प्रातःकाल ही नब तुम जिनमंदिरमें दर्शन करनेको जावोगे तो तुमको पार्श्वनाथ भगवान्की मूर्तिके छत्रमय फनपर अनुमानविषयक संदेह निवारक उत्तर मिलेगा" सो प्रातःकाल ही दर्शन करते समय नीचें लिखा श्लोक पात्रकेशरीके दृष्टिगत हुवा. अन्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः। नान्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः ॥१॥ फिर क्या था सर्व सन्देह दूर हो गये और शुद्धान्तःकरणसे परम श्रद्धास्पद जैन होकर भक्तिपूर्वक भगवान्की स्तुति करके नमस्कार पूजनादि किया. शेषमें जैनन्यायसमुद्र में अवगाहन करके जैनमतके परम पूजनीय एक दिग्गज विद्यानन्दि नामके आचार्यश्रेष्ठ हो गये. उसी समय यह 'आप्तपरीक्षा' नामका स्तोत्र बनाया तथा अनेक शास्त्र रचे. जिनमेंसे 'आप्तमीमांसा' पर ८ हजार श्लोकोंमें अष्टसहस्री नामकी टीका और तत्त्वार्थसूत्रपर शोलहहजार श्लोकोंमें श्लोकवार्तिकालंकार नामका भाष्य रचा है. सो अभी उपलब्ध है. इसके शिवाय इस आप्तपरीक्षाको अतिशय क्लिष्ट देखकर इसपर भी आपहीने ३,००० श्लोकोंमें टीका रची है, सो नैयायिक विद्वानोंके देखने योग्य है. परन्तु उसके संशोधन करनेवाले विद्वानोंकी अप्राप्तिके कारण जैनी विद्वानों और जैनी विद्यार्थियोंको प्रतिदिन पाठ करनेके लिये हमने यह मूलमात्र ही छपाया है. इसके भी शोधनेका पूरा साधन न होनेके कारण अनेक अशुद्धियें रह गई होंगी सो पाठकगण टीका देखकर शुद्ध कर लें. ता० ३-६-१९०४ ईखी. } प्रकाशक. Page #3 -------------------------------------------------------------------------- ________________ 接走来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来 जैनग्रन्थरत्नाकरस्थं चतुर्थ रत्नम्. श्रीवीतरागाय नमः आचार्यचर्यश्रीविद्यानन्दस्वामिविरचिता आप्तपरीक्षा. 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来或走来来来来来来来来来来来来来来来来来来都 प्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने। नमः श्रीजिनचन्द्राय मोहध्वान्तप्रभे दिने ॥ १ ॥ श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः । इत्याहुस्तद्गुणस्तोत्रं शास्त्रादौ मुनिपुङ्गवाः ॥ ५ ॥ मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ ३॥ इत्यसाधारणं प्रोक्तं विशेषणमशेषतः । परसङ्कल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥ ४ ॥ अन्ययोगव्यवच्छेदान्निश्चिते हि महात्मनि । तस्योपदेशसामर्थ्यानुष्ठानं प्रतिष्ठितम् ॥ ५ ॥ तत्रासिद्धं मुनीन्द्रस्य भेत्तुत्वं कर्मभूभृताम् । ये वदन्ति विपर्यासात्तान्प्रत्येवं प्रचक्ष्महे ॥ ६ ॥ प्रसिद्धः सर्वशास्त्रज्ञस्तेषां तावत्प्रमाणतः ।। सदा विध्वस्तनिःशेषवाधकात्खसुखादिवत् ॥ ७ ॥ ज्ञाता यो विश्वतत्त्वानां स भेत्ता कर्मभूभृताम् । भवत्येवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥ ८ ॥ ** **PARENTS *本东未来未志来未来未来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来 Page #4 -------------------------------------------------------------------------- ________________ ************* जैन ग्रन्थरत्नाकरे. नास्पृष्टः कर्म्मभिः शश्वद्विश्वदृश्वास्ति कश्चनः । तस्यानुपायसिद्धस्य सर्वथानुपपतितः ॥ ९ ॥ प्रणीतिर्मोक्षमार्गस्य न विना नादिसिद्धितः । सर्वज्ञादिति तत्सिद्धिर्न परीक्षासहा स हि ॥ १० ॥ प्रणेता मोक्षमार्गस्य नाशरीरोऽन्यमुक्तवत् । सशरीरस्तु नाकर्म्मा सम्भवत्यज्ञनन्तुवत् ॥ ११ ॥ • न चेच्छाशक्तिरीशस्य कर्म्माभावेऽपि युज्यते । तदिच्छावानभिव्यक्ता क्रिया हेतुः कुतोऽज्ञवत् ॥ १२ ॥ ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुः किल । सदेश्वर इति ख्यातेऽनुमानमनिदर्शनम् ॥ १३ ॥ समीहामन्तरेणापि यथा वक्ति जिनेश्वरः । तथेश्वरोऽपि कार्य्याणि कुर्य्यादित्यप्यपेशलम् ॥ १४ ॥ सति घर्म्मविशेषे हि तीर्थकृत्त्वत्समाहूये । ब्रूयाज्जिनेश्वरो मार्गं न ज्ञानादेव केवलात् ॥ ११ ॥ सिद्धस्यापास्तनिःशेषकर्म्मणो वागसम्भवात् । बिना तीर्थकरत्वेन नाना नार्योपदेशता ॥ १६ ॥ तथा धर्म्मविशेषोऽस्य योगश्च यदि शाश्वतः । तदेश्वरस्य देहोऽस्तु योग्यन्तरवदुत्तमः ॥ १७ ॥ विग्रहामुग्रहो देहं स्वं निर्मायान्यदेहिनाम् । करोतीश्वर इत्येतन्न परीक्षाक्षमं वचः ॥ १८ ॥ देहान्तराद्विना तावत्स्वदेहं जनयेद्यदि ॥ तदा प्रकृतकार्येऽपि देहधानमनर्थकम् ॥ १९ ॥ Page #5 -------------------------------------------------------------------------- ________________ 张本主本本本本本本本本本本本本本本条本条本卖多多本本本本末去 आप्तपरीक्षा. sattakkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkattatx देहान्तरात्स्वदेहस्य विधाने चानवस्थितिः । तथा च प्रकृतं कायं कुर्य्यादीशो न जातुचित् ॥२०॥ स्वयं देहाविधाने तु तेनैव व्यभिचारिता। .. कार्य्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥ २१॥ यथानीशः स्वदेहस्य कर्ता देहान्तरात्मनः । पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥ २२ ॥ तथेशस्यापि पूर्वस्माइहादेहान्तरोद्भवात् ।। नानवस्थेति यो ब्रूयात्तस्यानीशस्त्वमाशितुः ॥ २३ ॥ अनीशः कर्मदेहेनानादिसन्तानवर्तिना । यथैव हि सक`नस्तदक्न कथमीश्वरः ॥ २४ ॥ ततो नेशस्य देहोऽस्ति प्रोक्तदोषानुषङ्गतः । नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥ २५ ॥ येनेच्छामन्तरेणापि तस्य कार्ये प्रवर्तनम् । जिनेन्द्रवद् घटेतेति नोदाहरणसम्भवः ॥ २६ ॥ ज्ञानमीशः स्वं नित्यश्चेदशरीरस्य न क्रमः । कार्याणामक्रमाद्धेतोः कार्याक्रमविरोधतः ॥ २७ ॥ तद्वोधस्य प्रमाणत्वे फलाभावः प्रसज्यते । ततः फलाववोधस्येष्टौ च स्वस्य मतक्षतिः ॥ २८ ॥ फलत्वे तस्य नित्यत्वं न स्यान्मानात्समुद्भवात् । ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥ २९ ॥ अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेर्महेशेनाकरणेऽस्य स्वबुद्धितः ॥ ३० ॥ *PRITRAFFITIFFFFFFFARPF 东东东来东来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来形 Page #6 -------------------------------------------------------------------------- ________________ 末末末末末末末末末末完实 जैनग्रन्थरत्नाकरे. बुद्धयन्तरेण तद्बुद्धेः करणे चानवस्थितिः । नानादिसन्ततिर्युक्ता कर्म्मसन्तानतो विना ॥ ३१ ॥ अव्यापि च यदि ज्ञानमीश्वरस्य तदा कथम् ! सकृत्सर्वत्र कार्य्याणामुत्पत्तिर्घटते ततः ॥ ३२ ॥ यद्येकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत्किन्न समुद्भवः ॥ ३३ ॥ कारणान्तरवैकल्यात्तथानुत्पत्तिरित्यपि । कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३४ ॥ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः । अन्वयस्यापि सन्देहात्कार्य्यं तद्धेतुकं कथम् ॥ ३९ ॥ एतेनैवेश्वरज्ञानव्यापिनित्यमपाकृतम् । तस्येशवत्सदाकार्य्यक्रमहेतुत्वहानितः ॥ ३६ ॥ अस्वसंविदितं ज्ञानमीश्वरस्य यदीष्यते । तदा सर्वज्ञता न स्यात्स्वज्ञानस्याप्रवेदनात् ॥ ३७ ॥ ज्ञानान्तरेण तद्वित्तौ तस्याप्यन्येन वेदनम् । वेदनेन भवेदेवमनवस्था महीयसी ॥ ३८ ॥ गत्वा सुदूरमप्येवं स्वसंविदितवेदने । इष्यमाणे महेशस्य प्रथमं तादृगस्तु वः ॥ ३९ ॥ तत्स्वार्थव्यवसायात्मज्ञानं भिन्नं महेश्वरात् । कथं तस्येति निर्द्देश्यमाकाशादिवदञ्जसा ॥ ४० ॥ समवायेन तस्यापि तद्भिन्नस्य कुतो गतिः । इहेदमिति विज्ञानादवाध्याद्वयभिचारितम् ॥ ४१ ॥ ॐॐॐॐॐॐॐॐॐॐॐॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ Page #7 -------------------------------------------------------------------------- ________________ 法东东卖求求求求求求求求求求求求求求求求求求求求求求求求求名 आप्तपरीक्षा. इह कुण्डे दधीत्यादिविज्ञानेन स विद्विषा । साध्ये सम्बन्धमात्रे तु परेषां सिद्धसाधनम् ॥ ४२ ॥ सत्यामयुतसिद्धौ चेन्नेदं साधुविशेषणम् । शास्त्रीयायुतसिद्धत्वविरहात्समवायिनोः ॥ ४३ ॥ द्रव्यं स्वावयवाधारं गुणो द्रव्याश्रयो यतः । लौकिक्ययुतसिद्धिस्तु न भवेदुग्धाम्भसोरपि ॥ ४४ ॥ पृथगाश्रयवृत्तित्वं युतसिद्धिर्न चानयोः । सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः ॥ ४५ ॥ ज्ञानस्यापीश्वरादन्यद्रव्यवृत्तित्वहानितः। इति येऽपि समादध्युस्तांश्च पर्यनुयुंज्महे ॥ ४६ ॥ विभुद्रव्यविशेषाणामन्याश्रयविवेकतः । युतसिद्धिः कथं नु स्यादेकद्रव्यगुणादिषु ॥ ४७ ॥ समवायः प्रसज्येतायुतसिद्धौ परस्परम् । तेषां तद्वितयासत्त्वे स्यायाघातो दुरुत्तरः ॥ ४८ ॥ युतप्रत्ययहेतुत्वाद्युतसिद्धिरितीरणे । विभुद्रव्यगुणादीनां युतासद्धिः समागता ॥ ४९ ॥ ततो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणम् । हेतोर्विपक्षतस्तावयवच्छेदं न साधयेत् ॥ ५० ॥ सिद्धेऽपि समवायस्य समवायिषु दर्शनात् । इदेहमिति संवित्तेः साधनं व्यभिचारि तत् ॥ ११ ॥ समवायान्तरावृत्तौ समवायस्य तत्त्वतः । ..समवायिषु तस्यापि परमादित्यनिष्ठितः ॥ १२ ॥ **ቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹws 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来成名 来来来来来来来来来来来来求求求求求求求求求求求求求求求求求求求求求求求求求求求求法求求求求求求求求求求求求求求 Page #8 -------------------------------------------------------------------------- ________________ titutitttttttititattttttttikkkkkkk जैनप्रन्यरत्नाकरे. 本东东未来走走走走来走来来来来来来求求求求求求求求基本本来就求求求求求求求求求求求求求求求求求求求求求求求求 तद्वाधास्तीत्यवाधत्वं नाम नेह विशेषणम् । हेतोः सिद्धमनेकान्तो यतोऽनेनेति ये विदुः ॥ ५३॥ तेषामिहेति विज्ञानाद्विशेषणविशेष्यता । समवायस्य तद्वत्सु तत एव न सिध्यति ॥ १४ ॥ विशेषणविशेष्यत्वसम्बन्धोऽप्यन्यतो यदि । खसम्बन्धिषु वर्तेत तदा वाधानवस्थितिः ॥ ५५ ॥ विशेषणविशेष्यत्वप्रत्ययादवगम्यते । विशेषणविशेष्यत्वमित्यप्येतेन दूषितम् ॥ १६ ॥ तस्यानन्त्यात्प्रपहणामाकांक्षा क्षयतोऽपि वा । न दोष इति चेदेवं समवायादिनापि किम् ॥ ५७ ॥ गुणादिद्रव्ययोभिन्नद्रव्ययोश्च परस्परम् । विशेषणविशेष्यत्वसम्बन्धोऽस्तु निरङ्कशः॥१८॥ संयोगः समवायो वा तद्विशेषोऽस्त्वनेकधा । स्वातन्त्र्ये समवायस्य सर्वथैक्ये च दोषतः ॥ १९ ॥ स्वतन्त्रस्य कथं तावदाश्रितत्वं स्वयं मतम् । तस्याश्रितत्ववचने वातन्त्र्यं प्रतिहन्यते ॥ ६ ॥ समवायिषु सत्स्वेव समवायस्य वेदनात्। आश्रितत्वे दिगादीनां मूर्त्तद्रव्याश्रितिनं किम् ॥ ६१ ॥ कथं चानाश्रितः सिद्धयेत्सम्बन्धः सर्वथा वचित् । खसम्बन्धिषु येनातः सम्भवेनियमस्थितिः ॥ ६२ ॥ एक एव च सर्वत्र समवायो यदीष्यते । तदा महेश्वरे ज्ञानं समवैति न खे कथम् ॥ ६३॥ *FTTTTTTTTTTTTTTTTTTTER* 求求求求求求求求求求求求求求求求求求来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来 Page #9 -------------------------------------------------------------------------- ________________ 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来本本本本本末考 来来来来来来来来来来来来来来来来来来来来来来来来来来来来本市未末 आप्तपरीक्षा. wwwwwwwwwwww इहेति प्रत्ययोऽप्येष शङ्करे न तु खादिषु । इति भेदः कथं सिध्येन्नियामकमपश्यत ॥ ६४ ॥ न चाचेतनता तत्र सम्भाव्येत नियामिका । शम्भावपि तदा स्थानात्खादेस्तदविशेषतः ॥६५॥ नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलम् । समवायात्सदा ज्ञाता यद्यात्मैव स किं स्वतः ॥ ६६ ॥ नायमात्मा न चानात्मा खात्मत्वसमवायतः। समवायेति चेदेवं द्रव्यमेव स्वतोऽसिधत् ॥ ६७ ॥ नेशो द्रन्यं न चाद्रव्यं द्रव्यत्वसमवायतः । सर्वदा द्रव्यमेवेति यदि सन्नेव स स्वतः ॥ ६८ ॥ न स्वतः सन्नसन्नापि सत्त्वेन समवायतः । सन्नेव शश्वदित्युक्तौ व्याघातः केन वार्यते ॥ ६९ ॥ स्वरूपेणासतः सत्वसमावाये च खाम्बुजे । स स्यात्किन्न विशेषस्याभावात्तस्य ततोऽअसा ॥ ७० ॥ स्वरूपेण सतः सत्त्वसमवायेऽपि सर्वदा । सामान्यादौ भवेत्सत्त्वसमवायो विशेषतः ॥ ७१ ॥ स्वतः सतो यथा सत्त्वसमवायस्तथास्तु सः। द्रव्यत्वात्मत्ववोद्धत्वसमवायोऽपि तत्त्वतः ॥ ७२ ॥ द्रव्यस्यैवात्मनो वोद्धः स्वयं सिद्धस्य सर्वदा । न हि स्वतो तथाभूतस्तथात्वसमवायभाक् ॥ ७३॥ 未来来来来来来来来来来来来来来来来来来来来来来来来去去东来东东本东东本法未染未来来来来来来来来来来来来 * १ 'सदात्मैवेति' इत्यपि पाठः । *TRITTARPRIPTIPRITIES Page #10 -------------------------------------------------------------------------- ________________ 族主求求求求求求求求求求求求求求求求求求求求求求求求求求求法求: जैनग्रन्थरत्नाकरे. 族未来来来来来来来来来来来来来来来来来来来来来来来来来来来来来走走未来来来来来来来来林来来来来来来来来来来来形 स्वयंज्ञत्वे च सिद्धेऽस्य महेशस्य निरर्थकम् । ज्ञानस्य समवायेन ज्ञत्वस्य परिकल्पनम् ॥ ७४ ॥ तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः । कथंचिदीश्वरस्यास्ति जिनेशत्वमसंशयम् ॥ ७९ ॥ स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । सदेहः सर्वविन्नष्टमोहो धर्मविशेषभाक् ॥ ७६ ॥ ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते । शिवः कर्तोपदेशस्य सोऽभेत्ता कर्मभूभृताम् ॥ ७७ ॥ एतेनैव प्रतिव्यूढः कपिलोऽप्युपदेशकः ।। ज्ञानादर्थान्तरत्वस्याविशेषात्सर्वथा स्वतः ॥ ७८ ॥ ज्ञानसंसर्गतो ज्ञत्वमज्ञस्यापि न तत्त्वतः । व्योमवञ्चेतनस्यापि नोपपद्येत मुक्तवत् ॥ ७९ ॥ प्रधानं ज्ञत्वतो मोक्षमार्गस्यास्तूपदेशकम् । तस्यैव विश्ववेदित्वानेत्तृत्वात्कर्मभूभृताम् ॥ ८० ॥ इत्यसम्भाव्यमेवास्याचेतनत्वात्पटादिवत् । तदसम्भवतो नूनमन्यथा निष्फलः पुमान् ॥ ८१ ॥ भोक्तात्मा चेत्स एवास्तु कर्ता तदविरोधतः । विरोधे तु तयोर्भोः स्याद्भुजौ कर्तृता कथम् ॥ ८२ ॥ प्रधानं मोक्षमार्गस्य प्रणेता स्तूयते पुमान् । मुमुक्षुभिरिति ब्रूयात्कोऽन्योऽकिञ्चित्करात्मनः ॥ ८३ ॥ सुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः । विश्वतत्त्वज्ञतापायात्तत्त्वतः कपिलादिवत् ॥ ८४ ॥ *TRITTTTTTTTTTTTTTTTTTTP* 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来 Page #11 -------------------------------------------------------------------------- ________________ 供求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求本本末末末末末末本本本末来来来来来来来来来来 法未来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来者 आप्तपरीक्षा. संवृत्या विश्वतत्त्वज्ञः श्रेयो मार्गोपदेश्यपि । बुद्धो वन्द्यो न तु स्वप्नम्तादृगित्यज्ञचेष्टितम् ॥ ८५ ॥ यत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् । सियेत्स्वतोऽन्यतो वापि प्रमाणात्स्वेष्टहानितः ॥ ६ ॥ सोऽर्हन्नेव मुनीन्द्राणां वन्द्यः समवतिष्ठते । तत्सद्भावे प्रमाणस्य निर्वाधस्य विनिश्चयात् ॥ ८७ ॥ ततोऽन्तरिततत्त्वानि प्रत्यक्षाण्यहतोऽजसा । प्रमेयत्वाद्यथास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥ ८८॥ हेतोर्न व्यभिचारोऽत्र दूरार्थैर्मन्दरादिभिः । सूक्ष्मैर्वा परमाण्वायैस्तेषां पक्षीकृतत्वतः ॥ ८९॥ तत्त्वान्यन्तरितानीह देशकालस्वभावतः । धर्मादीनि हि साध्यन्ते प्रत्यक्षाणि जिनेशिनः ॥९॥ न चास्मादृक् समक्षाणामेवमहत्समक्षता । न सिद्धेदिति मन्तव्यमविवादाद्वयोरपि ॥ ९१.॥ न चासिद्धं प्रेमयत्वं काय॑तो भागतोऽपि वा । सर्वथाप्यप्रमेयस्य पदार्थस्याव्यवस्थितेः ॥ ९२ ॥ यदि षड्भिः प्रमाणैः स्यात्सर्वज्ञः केन वार्यते। इति ब्रुवन्नशेषार्थप्रमेयत्वमिहेच्छति ॥ ९३ ॥ चोदनातश्च निःशेषपदार्थज्ञानसम्भवे । सिद्धमन्तरितार्थानां प्रमेयत्वं समक्षवत् ॥ ९४ ॥ यन्नार्हतः समक्षं तन्न प्रमेयं वहिर्गतः। मिथ्र्यकान्तो यथेत्येवं व्यतिरेकोऽपि निश्चितः ॥ ९५ ॥ * FRRRRRRRRRRRRRRRRRRRRRRRRR* 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来读读未来来来来来来来来来来来来来来来来来来来 Page #12 -------------------------------------------------------------------------- ________________ 族本体本本本本本东东本流血本求求求求求求求求求求求求求主本本本是 जैनप्रन्थरत्नाकरे. 供求求求求求求求求求求求求求求求求来本东东市东未来来来来来来来来来来来来来来来来来来来林东东未来来来来来来老 सुनिश्चितान्वयाद्धेतोः प्रसिद्धव्यतिरेकतः । ज्ञाताहविश्वतत्त्वानामेवं सिध्येदवाधितः ॥ ९६ ॥ प्रत्यक्षमपरिच्छिन्दत्रिकालं भुवनत्रयम् । रहितं विश्वतत्त्वज्ञैर्न हि तद्वाधकं भवेत् ॥ ९७ ॥ नानुमानोपमानार्थापत्त्यागमबलादपि । विश्वज्ञाभावसंसिद्धिस्तेषां सद्विषयत्वतः ॥ ९८ ॥ नार्हनिःशेषतत्त्वज्ञो वक्तृत्वपुरुषत्वतः ।। ब्रह्मादिवदिति प्रोक्तमनुमानं न वाधकम् ॥ ९९ ॥ हेतोरस्य विपक्षेण विरोधाभावनिश्चयात् । वक्तृत्वादेः प्रकर्षेऽपि ज्ञानानिहा॑ससिद्धितः ॥ १० ॥ नोपमानमशेषाणां नृणामनुपलम्भतः । उपमानोपमेयानां तद्वाधकमसम्भवात् ॥ ॥ १०१ ॥ नार्थापत्तिरसर्वज्ञं जगत्साधयितुं क्षमा । क्षीणत्वादन्यथाभावाभावात्तत्तदवाधिका ॥ १०२ ॥ नागमोऽपौरुषेयोऽस्ति सर्वज्ञाभावसाधनः । तस्य कार्येप्रमाणत्वादन्यथानिष्टसिद्धितः ॥ १०३ ॥ पौरुषेयोऽप्यसर्वज्ञप्रणीतो नास्य वाधकः । तत्र तस्याप्रमाणत्वाद्धर्मादाविव तत्त्वतः ॥ १०४ ॥ अभावोऽपि प्रमाणं ते निषेध्याधारवेदने । निषेध्यस्मरणे च स्यान्नास्तिता ज्ञानमञ्जसा ॥ १०५ ॥ न चाशेषजगज्ज्ञानं कुतश्चिदुपपद्यते । नापि सर्वज्ञसंवित्तिः पूर्व तत्स्मरणं कुतः ॥ १०६ ॥ *#TTTTTTTTTTTTTT TTP* 外外外外外外外外外外外外外好好計林外約對外外外外外外外計料外外外計外科外許計計計計計第外外計計計計計外教 Page #13 -------------------------------------------------------------------------- ________________ PPITITIIIITTERT**** 求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求来求求求求求求求求求求求求 sakstakaitikakaitiktakakakakaki आसपरीक्षा. येनाशेषजगत्यस्य सर्वज्ञस्य निषेधनम् । परोपगमतस्तस्य निषेधे वेष्टवाधनम् ॥ १०७ ॥ मिथ्यैकान्तनिषेधस्तु युक्तोऽनेकान्तसिद्धितः ।। नासर्वज्ञजगत्सिद्धेः सर्वज्ञप्रतिषेधनम् ॥ १०८॥ एवं सिद्धः सुनिर्णेतासम्भवद्वाधकत्वतः । सुखवद्विश्वतत्त्वज्ञः सोऽहन्नेव भवानिह ॥ १०९॥ स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः । यथा शीतस्य भेत्तेह कश्चिदुष्णप्रकर्षतः ॥ ११० ॥ तेषामागमिनां तावद्विपक्षः संवरो मतः । तपसा सञ्चितानान्तु निर्जरा कर्मभूभृताम् ॥ १११ ॥ तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि । तारतम्यविशेषस्य सिद्धेरुष्णप्रकर्षवत् ॥ ११२ ॥ कणि द्विविधान्यत्र द्रव्यभावविकल्पतः । द्रव्यकर्माणि जीवस्य पुद्गलात्मन्यनेकधा ॥ ११३ ॥ भावकाणि चैतन्यविवर्त्तात्मनि भाति तु । क्रोधादीनि स्ववेद्यानि कथंचिञ्चिदभेदतः ॥ ११४ ॥ तत्स्कन्धराशयः प्रोक्ता भूमृतोऽत्र समाधितः । जीवाद्विश्लेषणं भेदः सन्तानात्यन्तसंक्षयः ॥ ११५ ॥ स्वास्मलाभस्ततो मोक्षः कृत्स्नकर्मक्षयात्मनः । निर्जरात्संपराभ्यां नुः सर्वसद्वादिनामिह ॥ ११६ ॥ नास्तिकानान्तु नैवास्ति प्रमाणं तन्निराकृतौ । प्रलापमात्रकं तेषां न वाधेयं महात्मनाम् ॥ ११७ ॥ *PRINTRPFFFFFFFFERTIFY 不好好好好好科科科科科科科科科科科科科科科科計計計計計計計計計計外* Page #14 -------------------------------------------------------------------------- ________________ 来主本本末末求求求求求求求求求求求求求求求求求无法承志志本本末末书 जैनग्रन्थरत्नाकरे. मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः । विशेषेण प्रपत्तन्यो नान्यथा तद्विरोधतः ॥ ११८ ॥ प्रणेता मोक्षमार्गस्यावाध्यमानस्य सर्वथा । साक्षाद्य एव स ज्ञेयो विश्वतत्त्वज्ञताश्रयः॥ ११९ ॥ वीतनिःशेषदोषोऽतः प्रवन्धोऽर्हन् गुणाम्बुधिः । तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥ १२० ॥ मोहाक्रान्तान्न भवति गुरो मोक्ष्यमार्गप्रणीति नर्ते तस्याः सकलकलुषध्वंसजा स्वात्मलब्धिः । तस्यै वन्द्यः परगुरुरिह क्षीणमोहस्त्वमहन् साक्षात्कुर्वन्नमलकमिवाशेषतत्त्वानि नाथः ॥ १२१ ॥ न्यक्षेणाप्तरीक्षाप्रतिपक्षं क्षपयितुंक्षमेयमाक्षेपाः ।। प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीः क्षणाय संलक्ष्या ॥१२२॥ * श्रीमत्तत्त्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य प्रोत्थानारम्भकाले सकलमलभिदे शास्त्रसारैः कृतं यत् । स्तोत्रं तीर्थोपमानं प्रथितप्रथुपथं स्वामिमीमांसितं त- . * द्विद्यानन्दैः स्वशक्तया कथमपि कथितं सत्यवाक्यार्थसिद्धये ॥१२३ इति तत्वार्थशास्त्रादौ मुनीन्द्रस्तोत्रगोचरा । प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥ १२४ ॥ 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来走走走林志志老 名外外外外外升升升升升外外外外外外升升升升升升升升升升外外外外外外外外外好外外好外外宇升升升升升升升升外外针北 इत्याप्तपरीक्षा समाप्ता। * ** ** ****** * Page #15 --------------------------------------------------------------------------  Page #16 -------------------------------------------------------------------------- ________________ Esanananananananananak LEE tee Rastasranastast astrastrastramsastrastra भ प्राप्तव्य-जैनन्यायदर्शनग्रन्थाः। ॐ तत्त्वार्थसूत्रं-पूज्यपादकृतसर्वार्थसिद्धिटीकया सहितम्... ... S न्यायदीपिका धर्मभूषणयतिविरचिता ... प्रमेयरत्नमाला ( परीक्षामुखटीका ) अनन्तवीर्याचार्यविरचिता ... आप्तमीमांसा ( देवागमस्तोत्रं ) स्वामिसमन्तभद्रविरचिता ... सप्तभङ्गितरङ्गिणी-विमलदासविरचिता ... ... सप्तभङ्गितरङ्गिणी-श्रीयुतपण्डितठाकुरप्रसादशर्मणा विरचिता भाषाटीकासहिता ... स्याद्वादमञ्जरी हेमचन्द्राचार्यविरचिता ... ... ... ए खामिकार्तिकेयानुप्रेक्षा संस्कृतच्छाया भाषाटीकासहिता व ... जैनकाव्यालङ्कारग्रन्थाः। 8 यशस्तिलकचम्पू सोमदेवविरचिता सटीका पूर्वार्द्धा ( महाकाव्यं ) द्विसन्धानकाव्यं ( राघवपाण्डवीयं) महाकविधनञ्जयविरचितम् 6 सटीकम् (महाकाव्यं)... ... ... ... 1 // ) धर्मशर्माभ्युदयं भट्टार हरिचन्द्रविरचितं मूलं (महाकाव्यं )... जीवन्धरचम्पू , , ( , )... चन्द्रप्रभचरितं वीरनन्दिविरचितं मूलं ... ( महाकाव्यं )... नेमनिर्वाणकाव्यं वाग्भट्टाचार्यविरचितं मूलं ( , ) प्राकृतपिङ्गलसूत्राणि सटीकानि वाग्भट्टाचार्यविरचितानि (,)... वाग्भट्टालङ्कारसटीकः , (अलङ्कारः) ... // ). काव्यानुशासनं सटीकं , ( , )... ) मद्यचिंतामणिः वादीभसिंहसूरिविरचिता क्षत्रचूडामाणिकाव्यं " (सटिप्पणं)... 1) पत्ता-पन्नालाल जैन, व्यवस्थापक-2 जैनग्रन्थरत्नाकरकार्यालय, पो. गिरगांव-बम्बई. ARAAAAaaasaskan AstanaRARASAAAAAAnar CEED | seseorsuse suuruseasessos