________________
族本体本本本本本东东本流血本求求求求求求求求求求求求求主本本本是
जैनप्रन्थरत्नाकरे.
供求求求求求求求求求求求求求求求求来本东东市东未来来来来来来来来来来来来来来来来来来来林东东未来来来来来来老
सुनिश्चितान्वयाद्धेतोः प्रसिद्धव्यतिरेकतः । ज्ञाताहविश्वतत्त्वानामेवं सिध्येदवाधितः ॥ ९६ ॥ प्रत्यक्षमपरिच्छिन्दत्रिकालं भुवनत्रयम् । रहितं विश्वतत्त्वज्ञैर्न हि तद्वाधकं भवेत् ॥ ९७ ॥ नानुमानोपमानार्थापत्त्यागमबलादपि । विश्वज्ञाभावसंसिद्धिस्तेषां सद्विषयत्वतः ॥ ९८ ॥ नार्हनिःशेषतत्त्वज्ञो वक्तृत्वपुरुषत्वतः ।। ब्रह्मादिवदिति प्रोक्तमनुमानं न वाधकम् ॥ ९९ ॥ हेतोरस्य विपक्षेण विरोधाभावनिश्चयात् । वक्तृत्वादेः प्रकर्षेऽपि ज्ञानानिहा॑ससिद्धितः ॥ १० ॥ नोपमानमशेषाणां नृणामनुपलम्भतः । उपमानोपमेयानां तद्वाधकमसम्भवात् ॥ ॥ १०१ ॥ नार्थापत्तिरसर्वज्ञं जगत्साधयितुं क्षमा । क्षीणत्वादन्यथाभावाभावात्तत्तदवाधिका ॥ १०२ ॥ नागमोऽपौरुषेयोऽस्ति सर्वज्ञाभावसाधनः । तस्य कार्येप्रमाणत्वादन्यथानिष्टसिद्धितः ॥ १०३ ॥ पौरुषेयोऽप्यसर्वज्ञप्रणीतो नास्य वाधकः । तत्र तस्याप्रमाणत्वाद्धर्मादाविव तत्त्वतः ॥ १०४ ॥ अभावोऽपि प्रमाणं ते निषेध्याधारवेदने । निषेध्यस्मरणे च स्यान्नास्तिता ज्ञानमञ्जसा ॥ १०५ ॥ न चाशेषजगज्ज्ञानं कुतश्चिदुपपद्यते ।
नापि सर्वज्ञसंवित्तिः पूर्व तत्स्मरणं कुतः ॥ १०६ ॥ *#TTTTTTTTTTTTTT TTP*
外外外外外外外外外外外外外好好計林外約對外外外外外外外計料外外外計外科外許計計計計計第外外計計計計計外教