________________
接走来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来
जैनग्रन्थरत्नाकरस्थं
चतुर्थ रत्नम्. श्रीवीतरागाय नमः आचार्यचर्यश्रीविद्यानन्दस्वामिविरचिता
आप्तपरीक्षा.
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来或走来来来来来来来来来来来来来来来来来来都
प्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने। नमः श्रीजिनचन्द्राय मोहध्वान्तप्रभे दिने ॥ १ ॥ श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः । इत्याहुस्तद्गुणस्तोत्रं शास्त्रादौ मुनिपुङ्गवाः ॥ ५ ॥ मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ ३॥ इत्यसाधारणं प्रोक्तं विशेषणमशेषतः । परसङ्कल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥ ४ ॥ अन्ययोगव्यवच्छेदान्निश्चिते हि महात्मनि । तस्योपदेशसामर्थ्यानुष्ठानं प्रतिष्ठितम् ॥ ५ ॥ तत्रासिद्धं मुनीन्द्रस्य भेत्तुत्वं कर्मभूभृताम् । ये वदन्ति विपर्यासात्तान्प्रत्येवं प्रचक्ष्महे ॥ ६ ॥ प्रसिद्धः सर्वशास्त्रज्ञस्तेषां तावत्प्रमाणतः ।। सदा विध्वस्तनिःशेषवाधकात्खसुखादिवत् ॥ ७ ॥ ज्ञाता यो विश्वतत्त्वानां स भेत्ता कर्मभूभृताम् । भवत्येवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥ ८ ॥ **
**PARENTS
*本东未来未志来未来未来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来